________________
mi
जैनेन्द्रव्याकरणम् । देवरवः । मोक्षमन्तरेण नात्यन्तिकं सुखम् । निसंज्ञयोग्रहणादिह न भवति । अन्तरायां पुरि वसति । किं ते धात्रवाणां सालङ्कायनां चान्तरेण गतेन । योग इति किम्। अन्तरा तक्षसिलाच पाटलिपुत्रध्वमुघ्नस्य प्राकारः। ननु पदविधिरथं अन्तराशब्दे सामर्थात् स्रुघ्नशब्दादिन भविष्यति योगग्रहणननर्थकम् । कचिदन्यैरपि योगे पथा स्यादित्येवमर्थम् । अभितःपरितःसमयानिकषाहाप्रतियोगेषूपसंख्यानम् । अभितो ग्रामम् । परिता ग्रामम् । समया ग्रामम् । निकषा ग्रामम् । हा देवदचम् । वृणीष्व भद्रे प्रतिभाति चेत्त्वं बुभुक्षितं न प्रतिभाति किञ्चित् । उभसर्वतसोः कार्यो धिगुपर्यादिषु त्रिषु । कृतद्विम्वेष्विपा योगस्ततोऽन्यत्रापि दृश्यते । उभयता प्रामम् । सर्वतो ग्रामम् । धिग्देवदत्तम् । उपर्यादिष्विति सूत्रोपलक्षणम् । सामीप्ये ऽधोध्युपरीति द्वित्वे कृते प्रयाणां ग्रहणम् । अधोऽधो ग्रामम् । उपर्यु परि ग्रामम् अध्यधि ग्रामम् । अन्यधाऽपि दृश्यते । विना धर्म कुतः सुखम् । अपिशब्दान्न च दृश्यते । हा तात हा पुत्र वत्सख ॥
कालाध्यन्यविच्छेदे ॥४॥ अविच्छेदो ऽत्यन्तसंयोगः । द्रव्यगुणक्रियाभिः कास्न्येन कालाधनोः संबन्ध इत्यर्थः । कालावनारविच्छेदे वर्तमानयोः सोरिष् भवति । अन्यस्याभुतत्वात् कालाध्यवाचिभ्यामेव । अधिकरणविवक्षायामीपि प्रासायां तदविवक्षायां संघन्धखणायां तायां प्राप्तायाम विधिः। कालस्य द्रव्येण याये । मासं गुहापूपाः। संवत्सरंक्षीरोदनम् । गुखेम शरदं मथुरा रमणीया ।