________________
१६४ महावृत्तिसहितम् । सर्वश्वेतः। सर्वगौरः। हिशुक्लः । विकृष्णः। सर्वनामसंख्ययोः परस्परं रत्तिः । वाक्ये संख्यायाः परत्वात् पूर्वनिपातः। धन्यः । भन्यः। वा प्रियस्थ । प्रियदधिः। दधिप्रियः । कथं गदुकण्ठः । गशिराः। भाहिताग्न्यादिषु द्रव्यः।
तान्तं बसे पूर्व प्रयोक्तव्यम् । कृनकटः । भिक्षितभिक्षः। अवमुक्तोऽपानकः। तान्तस्य विशेषणत्वेनाविव क्षतत्वात् पूषण न सिध्यति । कथं कचिजातिकालसुखादिभ्यश्च तान्तस्य परप्रयोगः । सारङ्गाधी । पलाण्डुम.क्षती । कालात् । मासजाता । संवत्सरजाता। सुखादिभ्यश्च । सुखं जातं यस्याः मुखजाता । दुःखजाता। वाहिताग्न्यादिष व्यवस्थयेदं भविष्यति । प्रहरणार्थेभ्यः परे वेपौ वक्तव्ये । उद्यतोऽ सरनेन अस्युद्यतः । असिः पाणावस्य प्रसिपाणि: । दण्डपाणिः । कथमुखतगदः । उद्यतासिः। इदमपि बेति सिंहावलोकनात् ।।
वा हिताग्न्यादा ॥२॥ श्राहिताग्न्यादिषु वसे तान्तं वा पूर्व प्रयोक्तव्यम् । माहिताग्निः । अग्न्याहितः । एवं जातपुत्रः । जातदन्तः । जातस्मश्रुः । तैलपीतः। घृतपीतः । मद्यपीतः। ऊढभार्यः अर्थगतः । प्राकृतिगणोऽयम् । तेनषा न वत्तव्याः॥
ये कडाराः ॥ ३ ॥ ये कडारादयो वा पूर्व प्रयोक्तव्याः । कडारश्च स भद्रश्च स कडारभद्रः। भद्रकडारः। विशेषणस्य वोक्तंन्यक
admin
-