________________
-
जैनेन्द्रव्याकरणम् । १५९ । दक्षिणस्याश्च पूर्वस्याश्च दिशार्यदन्तरालं दक्षिणपूर्वी । सर्वनाम्नो वृत्तिमा पूर्वपदस्थ पुंघद्भाव इति पुंवद्भावः। उत्तरपदस्य स्त्रीगोर्नीच इति प्रादेशः । अन्तरालदिश:. स्त्रीत्वात् पुमप। अनेकमित्यनुवर्तनात न्यक्संज्ञायां दयोः पर्यायेण पूर्वनिपातः । एवं दक्षिणपरा। उत्तरपरा । उत्तरपूर्वी प्रसिडानां दिक्छब्दानां ग्रहणादिह न भवति । वारुण्याश्च कौबेयाश्च दिशोरन्तरालम् ॥
तत्रेदमिति सरूपे ॥ ८ ॥ तत्रेति ईषन्वे हे सरूपे इदमित्येतस्मिन्नर्थे वो भवति । इतिकरणात् ग्रहणविशिष्टे युद्धे विवक्षा । केशेष केशेषु ष गृहीत्वा इदं युद्धं वृत्तं केशाकेशि । कचाकचि । अइजिति इच् सान्त इजिति तिष्ठरवादी हसंज्ञार्थ पठ्यते। अन्यस्यापि इति पूर्वपदस्य दोत्वम् । अत्र सापेक्षत्वात पूर्वेण वृत्तिन प्राप्नोति । सरूपे इति किम् । केशेषु च कचेषु च गृहीत्वा इदं युद्धं वृत्तम् ।
तेन ॥८६॥ इदमिति सरूपे इति वर्तते । तेनेति भान्ते सरूपे इदमित्येतस्मिन्नर्थे वसो भवति । इतिकरणानुवृत्तेर्यत्तेनेति निर्दिष्ट्र प्रहरणं चेत्तद्भवति । दण्डैश्च दण्डैश्च प्रत्येदं युद्धं वृत्तं दण्डादण्डि। मुसलामुसलि। सरूपे इत्येव । दण्डैश्च कमण्डलुभिश्च प्रहत्येदं बुद्धं वृत्तम् योगविभाग उत्तरार्थः।।
- सहेति तुल्ययोगे ॥ ६ ॥
तुल्ययोमः समानक्रियादियोगः । तेनेति वर्तते। |सह इत्येतत् सुबन्तं तुल्ययोगे वर्तमानेन तेनेति भान्तेन सह ।
-
११