________________
-
१५८
महात्तिसहितम् । उदरे स्थितो मणिरस्य उरेमणिः । षे कृति बहुलमिति ईपोऽनुप् । उष्टमुखमिव मुखमस्य उष्टमुखः । उपमानावयवस्वादुष्टोऽप्युपमानम् । इह केशचूड्रःसुवर्णालङ्कारो देवदत्तः इति केशसम्भारे केशशब्दः । सुवर्ण विकारे सुवर्णशब्दा वर्तते । सङ्गतार्थः समर्थ इति निर्देशादेवं जातीयस्य वा धुखं द्रव्यम् । प्रपतितपर्णः। प्रपर्णः । अविद्यमानभार्यः । अभार्यः । संख्येये संख्यया झ्यासन्नादूरसंख्यम् ॥ ८ ॥
सख्येये या संख्या वर्तते तया झि आसन्न अदूर इत्येतानि संख्या च वसो भवति । अनन्यार्थार्थ वान्तेऽप्यन्यपदार्थ प्रापणार्थञ्च । समीपे दशानामिमे उपदशाः। उपविंशाः। समीपप्राधान्येतु हसः। आसन्ना दशानामिमे आसन्नदशा । आसन्नविंशाः । अदूरदशाः । अदूरचत्वारिंशाः। द्वौ वा त्रयो वा इमेद्वित्राः। त्रयो वा चत्वारो वा इमे त्रिचतुराः।नक्तिसूपत्रिभ्यश्चतुर इति अस्त्यो निपात्यते। त्रिर्दश इमे त्रिदशाः। वृत्त्यैवाभ्यावृत्तेरुक्तत्वात् सुचाऽप्रयोगः। संख्यासंज्ञाविधानेऽधिकशब्दस्यापि संख्यात्व. मुक्तम् । अधिका दशानामिमेऽधिकदशाः। संख्येय इति किम् । अधिका विंशतिर्गवाम् । संख्ययेति किम् । पञ्च पदार्थाः । झ्यासन्नादूरसंख्यमिति किम् । पार्थिवाः पञ्च ।।
दिशो ऽन्तराले ॥ ८ ॥ दिकच्छब्दाः सुबन्ता अन्तरालवचने वसंज्ञकः सो| भवति ।अन्तराल एव यथा स्यादिति नियमार्थ प्रारम्भः।