SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ - जैनेन्द्रव्याकरणम् । वाचो वृत्तिन भवति । अलं कृत्वा । खलु कृत्वा । अग्रे भुत्का ॥ अन्यपदार्थेऽनेकं वम् ॥ ८६ ॥ वानिर्दिष्टं सुग्रहणमनुवर्तते । भानिर्दिनिवृत्तम् । अन्यस्य पदस्थार्थे वर्तमानमनेक सुबन्तं वसंज्ञकः सो भवति । चित्रगुः । लम्बकर्णः। दर्शनीयरूपः । अन्यग्रहणं किम् । स्वपदार्थे वसो मा भूत् । लम्बश्च स कर्णश्च स लम्बकर्णः । पदग्रहणं किम् । अन्यवाक्याथै मा भूत् । अर्थग्रहणं किमर्थम् । यावता शब्दे कार्यस्यासम्भवादर्थे कार्य विज्ञास्यते । अन्यपदार्थस्य ये लिङ्गसंख्ये ते यथा स्यातामित्येवमर्थम् । बहुयवं कुलम् । बहुयवा भूमिः। बहुयी । वहुयवाः । वाविभत्त्यन्ते अन्यपदार्थे वृत्तिन भवत्यनभिधानात् । अनेकग्रहणं बहूनामपि प्रापणार्थम् । सामानाधिकरण्याभावेऽपि वसो भवति । कण्ठेकालः। उरसिलोमा। उच्चैर्मुखो देवदत्तः। अस्तिक्षीरा गौः । झीनामसंख्यत्वादसामानाधिकरण्यमिहाभिधानाभावान भवति।पञ्चभिभुक्तमस्थासामानाधिकरण्येऽप्यनभिधानम्। पञ्च भुक्तवन्तोऽस्य । नपा निर्देशः किमर्थः। उन्मत्तगङ्गम् । लोहितगङ्गम् । खावन्यपदार्थ इति हस एव भवति । इह वीरपुरुषको ग्राम इति परत्वाद्धसः षसस्य बाधकः । शस्त्रीश्यामा देवदत्तेत्येवमादिषु यश्चैकाश्रय इति प्रकृतमस्ति तेन वसस्य बाधः।प्रादयो गताद्यर्थे वया इत्येव मादि वार्तिकवचनं प्रमाणम् । तेन निष्कौशाम्बिरित्येवमादिषु वसो न भवति । ईबुपमानपूर्वस्य धुखं वक्तव्यम् ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy