________________
। १५२
महावृत्तिसहितम् ।।
मा निपातस्थानियमः प्रसज्येत विशेषणादिसूत्रे इतिशब्दोऽस्ति तेन नीलस्योत्पलस्य नीलोत्पलस्यति । गुणगुणिसंबन्धे सविधिर्भवति । एकद्रव्येण गुणगुणिविवक्षा नास्तीति विशेषणवृत्तिरपि न भवति । झिना प्रतिषेधो वक्तव्यः । देवदत्तस्य साक्षात् । देवदत्तस्योपरि।।
कर्मणि च ॥ १६ ॥ चकारोऽवधारणार्थः । कर्मण्येव या ता विहिता तदन्तं सो न भवति । आश्चर्यो गवां दोह अगोपालकेन । रोचते मे ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं जिनदत्तेन ।युडिति नम्भावे युट् । कर्तृकर्मणोःकृतीत्युभयत्र तायां प्राप्तायां विद्याप्ती पर इति कर्मण्यव भवति । कर्तरि तु भा। कर्मण्येवेति किम् । इध्मव्रश्चनः ॥
कर्तरि क्तेन ॥ ७ ॥ कर्तरीति ताया विशेषणम् । कर्तरि या ता विहिता तदन्तं क्तान्तेन सो न भवति । अस्मिन्नास्यते स्म इदमेषामासितम् । इदमेषां यातम् । इदमेषां भुक्तम् । तयोरेव भावकर्मणोः क्त प्राप्त धिगत्याच्च अधिकरणे वाड्याचेति अधिकरणे क्तः । अधिकरणस्योक्तत्वात् । इदमित्येतस्मादीमास्तिमिडेकार्थे वा इति वैव भवति । कर्तृकर्मणोः कृतीति ता प्राप्ता न झित्तलोकेत्यादिना प्रतिषिद्धा तस्याधिकरण इत्यनेन एषामिति कर्त्तरि ता। एवं राज्ञां बुद्धः राज्ञां पूजितः मतिबुद्धिपूजार्थाचैत्यनेन वर्तमाने काले क्तो नियम्यते । स चेह कर्मणि कारके विहितः कर्तृकर्मणोः कृतीति कर्तरि ता प्राप्ता नझितेत्यादिना प्रतिषिडा भवतीत्यनेन सूत्रेण
wwdamortandane
seenetwasnasamorea
canonditatoendaramandaledeo