________________
mom
जैनेन्द्रव्याकरणम् । डद्गुणहतार्थसत्तव्यैकद्रव्यैः ॥ १५ ॥
डदन्त गुणार्थ तृप्तार्थ सत्संज्ञं तव्य एकद्रव्य इत्येतैः सह तान्तं न समस्यते । तस्य पूरणे डडित्यतः प्रभृति तमटकारेण डदिति प्रत्याहारः । चक्रधराणां पञ्चमः । तीर्थङ्कराणांषोडशः। बलदेवानां नवमः।समुदायसमुदितसम्बन्धे शेषलक्षणा ता । गुणार्थः । बलाकाया शक्लियम् । काकस्य कार्यम् । कण्टकस्य तैक्षण्यम् । गणगणिसम्बन्धे ता। एङि पररूपमित्यत्र परस्य रूपं पररूपमिति वृत्तिपदं ज्ञापकं यो गुणद्वारेण पूर्व द्रव्ये वृत्ती भवत्यन्ते गुणमाह तेन गुणशब्देनेह प्रतिषेधः। यस्तु सर्वदा गुणवचनस्तेन वृत्तिर्भवत्येव । हस्तिरूपम् । कपिज्ञरसः । चन्दनगन्धः । अग्निस्पर्शः । गुणशब्देनेह लोकप्रसिडा रूपरसगन्धस्पर्शा गुणा अभिप्रेताः। ततस्तद्विशेष्यैरयं प्रतिषेधः। तेन यत्नगौरवं सूत्रलाघवं करणपाटवं वचनप्रामाण्यं गोविंशतिरित्येवमादिषु न प्रतिषेधः । वृषलस्य धार्यमित्यत्र वृत्तेरनभिधानम् । तृप्तार्थः । फलानां तृप्तः । सक्तनां पूर्णः । फलानां सुहितः । सक्तूनां प्रीतः । तृप्त्यर्थे तूपसंख्यानमिति ता। सदिति सतृसानयोः संज्ञा। चोरस्य द्विषन् । कर्तृकर्मणाः कृतीति कर्मणि ता प्राप्ता नझित्येत्यादिना प्रतिषिडः। द्विषः शतुर्वा वचन मिति ता। इह तु शेषलक्षणा ता । देवदत्तस्य कुर्वन् । देवदत्तस्य कुर्वाणः । तव्यः । देवदत्तस्य कर्तव्यम् । जिनदत्तस्य कर्तव्यम् । अत्रापि व्यस्य वा कर्तरि इति शेषलक्षणा ता।तव्येन केचिद्विकल्पमिच्छन्ति । देवदत्तकर्तव्यम् । एक द्रव्यमस्य एकद्रव्यम् । राज्ञः पाटलिपुत्रकस्य । शुकस्य मारविदसौ आचार्यस्य श्रीदत्तस्य । पूर्व
-