________________
mgandusoommamm
SINESnuuunee
महावृत्तिसहितम् । आदनपाणिनीया इत्येवमादि सिद्धम् । चकारोऽवधारपार्थः । परमो मयूरव्यंसकः । वृत्त्यन्तरं न भवति ।
काला मेयः ॥ ६ ॥ कालवाचिनः शब्दा मेयैः परिच्छेद्यः सह समस्यन्ते षसो भवति। मेयैरिति सम्बन्धात् काला मानवचना गृह्यन्ते यद्यपि मुख्यं मानत्वं व्यवहारकालस्य मासादेर्न सम्भवति तथापि वचनात् परिछेदहेतुत्वमात्रम् । साधर्म्यमुपादायोपचारात् कालः परिमाणम् । मासादयो जातादेः संबन्धिनीमादित्यगतिं परिच्छिन्दन्तीति जातस्यापि परिच्छेदहेतव उच्यन्ते । एकाश्रय इति निवृत्तम् । मासो जातस्य मासजातः । सवत्सरजातः । तासापवादोऽयम् । काला इति बहुवचननिर्देशः किमर्थः। अहनी जातस्य ध्यन्हजातः । त्रिपदोऽपि षसो यथा स्यात् । हृदर्थद्युसमाहारे इत्यवयवषसे राजाहासखिभ्यष्ट इति ८ः। एभ्योन्होन्ह इति अन्हादेशः । यदा द्वयोरन्हो समाहार इतिविग्रहस्तदा न समाहार इत्यन्हादेशप्रतिषेधः सिडः। धहो जातस्य यहजातः । यहजातः ।
नञ् ॥ ६८ ॥ न सुपा सह समस्यते षसो भवति । अब्राह्मणः। अधर्मः । श्रसर्वज्ञः । अगाः। नेयं पूर्वपदार्थप्रधाना वृत्तिरलिङ्गासंख्यत्वप्रसङ्गात् । किश्च पूर्वपदप्रधानो हस उक्तः । अमक्षिकमिति। अन्यपदार्थप्राधान्ये तुअवर्षा हेमन्त इत्यत्र प्रादेशादि प्राप्नोति । अस्तुत्तरपदार्थप्रधानेयं रत्तिः । यद्येवमगामानयेत्युक्त गोमात्रस्यानयनं स्यात् । अथ स्वयमेव निवृत्तिपदार्थको गोशब्दः स ना केवलं द्योत्यते । एवं
Naga
mes