________________
जैनेन्द्रव्याकरणम् । १४७ षसंज्ञा भवन्ति । विशिधावंसावस्य व्यंसः । इवार्थे कः । व्यंसको मयूरो मयूरव्यंसकः । छत्रव्यंसकः । कम्बोजमुण्डः । यवनमुण्डः । एतेषु परनिपातः प्रयोजनम् । एहीडादयो ऽन्यपदार्थे । एहीडमिति यत्र कर्मणि एहि यवै. रिति एहीडं यहियवं वर्तते । एहिवाणिजेति यस्यां क्रियायां सा एहिवाणिजा। प्रेहिवाणिजा। एहिस्वागता। अपेहिस्वागता । एहिद्वितीया । अपेहिद्वितीया। प्रोहकटमस्यां प्रोहकटा। प्रोहकदमा। उडमचूडा। बाहरचेला । आहरवसना। आहरवितताभित्प्रलवणा। उडर उत्स. जेति यस्यां सा उद्धरोत्सृजा। उद्धमविधमा । उडरविसृजा । उत्पतनिपता । उत्पनिपचा । श्राख्यातमाख्यातेन सिडेऽप्यसातत्यार्थं वचनम् । उदक्च अवाक्च उच्चावचम । उच्चैश्च नीचैश्च उच्चनीचम् । आचितचोपचितच आचोपचम् । आचितपराचितस्य आचपराचम् । निश्चितप्रचितस्य निश्चमचम् । अकिञ्चनम् । स्नात्वाकालकः । पीत्वास्थिरकः । भुत्कासुहितः । प्रोष्यपापीयान् । उत्पत्यपाकला ज्ञातानिपत्यरोहिणी जाता निषण्णश्यामा जाता। अपहिप्रघसा वर्तते । इहपञ्चमी। इहद्वितीया।जहि कर्मणा वहुलमाभीक्ष्ण्ये कतीरं चाभिदधाति । जहि जोडमित्याह जहिजोडः। उज्जहिजोडः। जहिस्तम्बः । बहुलमितिकिम् । पचौदनम् । आख्यातमाख्यातेन सातत्ये। अश्नीतपियता वर्तते। पचतभृज्जता । खादतमोदता ।खादाचामाः आहारविवसा । आहारनिष्किरा । अविहितलक्षणं सविधानमिह द्रव्यम् । तेन शाकप्रधानः पार्थिवः शाकपार्थिवः। कुतपसौश्रुतः । अजातोल्वलिः । धृतरीढीयाः।
-
-
-