________________
जैनेन्द्रव्याकरणम् ।
१३६ । कत्र प्रकारे अवस्थापयति तद्विशेषणम् । अनेकप्रकाराधारभूतं वस्तु विशेष्यम् । विशेषणवाचिना सह षसो भवति । कृष्णश्च स कम्बलश्च स कृष्णकम्बल । लेाहिता च सा साटी च सा लोहितसाटी। अर्द्धच तत् पिप्पलो च सा अर्द्धपिप्पली । यदा पिप्यल्यत्यवे पिप्पलीशब्दस्तदेय वृत्तिरकाश्रयाधिकारात् । यदा समुदाये वर्तते तदा पिप्पल्याडमिति तासः। भिक्षकदेशे भिक्षाशब्द । द्वितीया भिक्षा द्वितीयभिक्षा । तृतीयभिक्षा । चतुर्थभिक्षा । तुर्यभिक्षा। इह भिक्षाद्वितीयमिति तासो नोपपद्यते । डनहणादिप्रतिषेधस्य बलीयस्त्वात् । कायैकदेशे कायशब्दः । पूर्वः कायः पूर्वकायः । अपरः कायः । अपरकायः। उत्तरकायः। एवं मध्यान्हः। सायान्हः। पूर्व कायस्येति अवयवसम्बन्धे तासानभिधानं पूर्व कायादिति प्राप्नोति । विशेषणविशेष्ययोरन्यतरस्य ग्रहणेऽपि सम्बन्धिशब्दत्वादुभयोः प्रतिपत्तिरिति व्यनिर्देशा व्यर्थः। नैवं यत्र पूर्वोत्तरपदयोः प्रत्येकं विशेषणविशेष्यभावस्तत्र यथा स्यादिह मा भृत् । वृक्षः शिंशपा। शिंशपा हि वृक्षार्थ न व्यभिचरतीति न तस्या विशेष्यत्वम् । यदा शिंशपादिशब्दाः फलादिष्वपि वर्तन्ते तदोभयोर्विशेष्यत्व सविधिर्भवत्येव । शिशपावृक्षः । पलाशवृक्षः। उभयोर्विशेषणत्वे कस्ख पूर्वनिपात इति चेत् प्रधानद्रव्यापेक्षयान्वर्थस्य नीचा गुणस्य पूर्वनिपातः । यद्यप्युत्पलादिशब्दो जातिशब्दस्तथापि जातिव्यस्योत्पत्तेः प्रभृत्या विनाशादात्मभूता प्रतीयत इति जातिनिमित्तः शब्दो द्रव्यशब्दो व्यवस्थाप्यते। अत एव विशेष्यत्वमुत्तरपदार्थस्य द्रव्यद्वारेण जातेरनीलत्वादना
-