________________
museme
१३८
महावृत्तिसहितम् । नवाचि सुबन्तं सामान्यवाचिना सुबन्तेन सह षसो भवति । निराधारं सामान्यं न प्रतीयत इति सामान्यधर्मेण विशि, यदुपमेयं तेनात्र वृत्तिः । शस्त्रीय श्यामा शस्त्रीश्यामा देवदत्ता । शस्त्रीशब्दः श्यामगुणमुपादाय देवदत्तायां वर्तत इति एकाश्रया वृत्तिन विरुध्यते। मृगीव चपला मृगचपलेति वद्भावश्च भवति । एवं कुमुदस्येनी हंसगमनीन्यग्रोधपरिमण्डला दूर्वाकाण्डश्यामा सरकाण्डगोरी। सामान्येनेति किम् । फला इव तण्डुलाः । पर्वता इव बलाहकाः। उपमानमिति किम् । देवदत्ता श्यामा ।
व्याघेलपमेयेऽतद्योगे ॥ ५१ ॥ तस्य समानस्य योगः प्रतिषिध्यते । उपमेयार्थवाचिव्याघ्रादिभिः सह षसो भवत्यतद्योगे। उपमेयशब्दस्य सम्बन्धित्वादुपमाने वृत्तिः । साधारणधर्मः सामान्य हि वृत्तावन्तर्भूतम् । अतद्योग इत्यनेन विशिष्टः साधारणधर्मः प्रतिषिध्यते । पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषविशेषस्य परनिपातार्थ प्रारम्भः । व्याघ्र सिंह ऋषभचन्दन वृक वृषभ वृष वराह हस्तिन कुञ्जर रुरु पुण्डरीक स्त्री पलाविका । प्राकृतिगणोऽयम् । तेन मुखकमलं करकिशलयं पुरुषचन्द्रादि सिद्धम् । अतद्योग इति किम् । पुरुषोऽयं व्याघ्र इव शरः । इदमेव प्रतिषेधवचनं ज्ञापकं भवति प्रधामस्य सापेक्षस्थापि वृत्तिः। तेन राजपुरुषो दर्शनीयः। राजपुरुषः पण्डित इत्येवमादि सिद्धम् ।
विशेषणं विशेष्येणेति ॥ ५२ ॥ एकाश्रय इति वर्तते । यत् सामान्याकारेण प्रवृत्तं सत् अनेकप्रकाराधारभूतं वस्तु प्रकारान्तरेभ्यो वृत्त्यै