________________
१३०
महावृत्तिसहितम् ।
खुच् । कचिन्न भवति । दात्रेण लूनवान् । परशुना छिन्नवान् । व्यान्तैरधिकार्थवचन इष्यते । कुक्कुटैः सम्पात्याः कुक्कुटसम्पात्या ग्रामाः । प्रत्यासन्नताकथनम् । काकपेथा नदो | श्वलेाः कूपः । कण्टकसंचेय ओदनः । बाष्पच्छेद्यानि तृणानि । कचिन्न भवति । काकैः पातव्याः । काकैः पानीया नदी । कचिदधिकार्थाभावेऽपि । बुसान्ध्यम् । तृणोपेन्ध्यम् । पूर्वमुत्तरच्च कारकविभक्तीलक्षणं सविधानमस्यैव प्रपञ्चः । साधनमिति किम् । भिक्षाभिरुषितः । हेतौ भा । कृद्ग्रहणं किम् । कृदन्तेनैव वृत्तिI यथा स्यात् सुबन्तेन मा भूत् । अनविलिनी । तादल्प इत्यकारान्तात् ङीविधिः सिद्धः । सुपपुंलिङ्गयुक्ताद्भवति ॥
भक्ष्यान्नाभ्यां मिश्रणव्यञ्जने ॥ ३० ॥
मिश्रणव्यञ्जनवाचिनी सुबन्तेन भक्ष्यान्नवाचिभ्यां यथासंख्यं षसो भवति । गुडेन मिश्रा धाना गुडधानाः | वृत्तौ क्रियाया अन्तर्द्धावादप्रयोगः । एवं गुडपृथुकाः । तिलपृथुकाः । व्यञ्जनम् । दध्ना उपसिक्त ओदनो दध्योदनः । घृतादनः ।
अप्तदर्थार्थबलिहितसुखरक्षितैः ॥ ३१ ॥
तस्मै इदं तदर्थम् । अवन्तं तदर्थेनार्थशब्देन च बलिहित-सुख-रक्षित इत्येतैश्च सह पसेो भवति । रथाय दारु । रथदारु । कुण्डलाय हिरण्यम् । कुण्डल हिरण्यम् । बहुलग्रहणानुवृत्तेः प्रकृतिविकृतिभावे तदर्थेन वृत्तिः । विकृतिः प्रकृत्या सह इत्यर्थः । इह न भवति । रन्धनाय स्थाली । अवहननायोदूखलम् । इदमेव ज्ञापकं तादर्थ्य