________________
-
walasana
जैनेन्द्रव्याकरणम् । अप भवति । कथमश्वघासो हस्तिविद्येति । तासेन सिद्धम् । अर्थशब्देन नित्यं वृत्तिः । मात्र इदं मात्रर्थम् । त्रिलिङ्गता लोकाश्रयत्वाल्लिङ्गस्य । आतुराी यवागूः । आतुरार्थः सूपः। देवाय बलिः। देववलिः। गृहबलिः । तादयें अप् । गोभ्यो हितं गोहितम् । अश्वहितम् । हितयोगे इदमेव ज्ञापकमपः । गोभ्यः सुखं गोमुखम् । अपचाशिष्येत्यादिना अप् । गोभ्यो रक्षितं गोरक्षितम् । तादर्थे अप।
का भीभिः ॥३२॥ बहुवचनादर्थविज्ञानम् । कान्तं भीवचनैः सह षसो भवति । केभ्यो भीः कभीः । वृकभ्यो भीतो वृकभीतः। केभ्यो भीतिः वृकभीतिः । वृकेभ्यो भयं वृकभयम् । सुष्वनुग्रहार्थम् । पूर्वस्यायं प्रपः । मुक्तापेतापाढपतितापत्रस्तैः प्रायः ॥ ३३ ॥
मुक्त-अपेत-अपोढ-पतित-अपत्रस्त इत्येतैः सह कान्तं प्रायः षसो भवति । भवान्मुक्तो भवमुक्तः । पापापेतः। सुखापोहः । स्वर्गपतितः। तरङ्गापत्रस्तः । सर्वत्रापादाने का। प्राय इति किम् । प्रासादात् पतितः। भोजनादपत्रस्त इत्येवमादी न भवति ॥
स्तोकान्तिकदूरार्थकच्छ क्तेन ॥ ३४ ॥
स्तोक अन्तिक दूर इत्येवमर्थाः शब्दाः कृशब्दश्च कान्ता:क्तान्तेन सह षसो भवति । स्तोकान्मुक्तः। अन्तिकादागतः। अभ्यासादागतः। दूरादागतः। विप्रकृष्टादागतः । कृछान्मुक्तः । कृछाल्लब्धः । स्तोकार्थकृछ्रेभ्यो।