________________
namaARDINeone
Sapnemam
HandsRBARINAMeautamdutar
जैनेन्द्रव्याकरणम् । १२५ वंश्यः । संख्या वंश्यवाचिना सह हसो भवति । दिमुनी व्याकरणस्य वंश्यो । बिमुनि व्याकरणस्य । अत्र सम्बन्धे ता। यदा व्याकरणस्याचार्ययोरभेदविवक्षा यावेतो दौ मुनी तावेव व्याकरणमिति द्वौ मुनी बंश्यो दिमुनि व्याकरणमिति तदा सामानाधिकरण्यं भवति । एवं सप्तकासि त्रिकोशलम् । एकाश्रयस्य वसस्य चापवादोऽयम् ॥
नदीभिश्च ॥ १७ ॥ बहुवचननिर्देशादर्थस्येदं ग्रहणम् । नदीवाचिभिः शब्दैः सह संख्या हसो भवति । सप्त सिन्धवः समाहृताः सप्तसिन्धु । सप्तगङ्गम । द्वियमुनम् । तिस्रो गोदावर्यः समाहृताः। विगोदावरम् । कृष्णदपाण्डुपूर्वीया भूमेरः सान्त इष्यते । गोदावर्याश्च नद्य श्च संख्याया उत्तरे यदा इति अस्त्यः सान्तो भवति । नदीशब्दोऽपि नदीवचन इति तेनापि वृत्तिः।प नदम् । अत्राऽप्यः सान्तः । चकार: किमर्थः समाहारे यथा स्यादिह मा भूत् । वीरावतीको देशः। एका नदी एकनदी।
खावन्यपदार्थे ॥ १८ ॥ __संख्येति निवृत्तम् । नदीभिरिति वर्तते । अन्यपदार्थ खुविषये नदोभिः सह सुबन्तं हसो भवति । उन्मत्तगङ्गं देशः । लोहितगङ्गम् । शनैर्गङ्गम् । तूष्णीगङ्गम् । अत्र वृत्तिपदेन संज्ञा,गम्यत इति सामर्थ्यानित्यः सविधिः। उन्मत्ता गङ्गा. यस्मिन् देशे इति सादृश्यमानेणार्थकथनं यथा गौरित्यस्यार्थे गच्छतीति । खाविति किम् । शीघा गङ्गा यस्मिन् देशे स शीघ्रगङ्गो देशः । अन्यपदार्थ इति किम । कृष्णावेष्णा । कृष्णा नाम नदीविशेषलक्षणः ॥
Daman
-