________________
१२६
महावृत्तिसहितम् ।
__षम् ॥ १६ ॥ अधिकारोऽयं प्राग वसात् । यदित ऊर्ध्वमनुक्रमिज्यामः षसंज्ञः सो भवति इत्येवं वेदितव्यम । वक्ष्यति इसच्छिनातीतपतितगतात्यस्तैः। धर्म श्रितो धर्मश्रितः । नपा निर्देशः किमर्थः । इह बीरपुरुषको ग्राम इति पूर्वापरप्रथमादिसूत्रेण प्राप्तः स्वपदार्थविषयत्वादन्तरङ्गः षसो बहिरङ्गेन वसेन बाध्यो यथा स्यात् । उत्तरपदार्थ.धानत्वं षसत्याभिधानवशात् ॥
इपा च प्राप्तापने ॥ २० ॥ इबन्तेन सह प्राप्तापन्ने शब्दरूपे बसो भवति । प्राप्तो जीविकां प्राप्तजीविकः। आपन्नो जीविकामापजीविकः । स्त्रीगार्नीच इति प्रादेशः । चकारः किमर्थः । आकारादेशसमुच्चयार्थः । प्राप्ता जीविकां प्राप्ताजीविका । आपन्नो जीविकामापन्नाजीविका । प्रपञ्चार्थमिदं सूत्रम् । वसेनाप्येतत् सिध्यति। यदा कर्माण क्तस्तदा प्राप्ता जीविका येनेति विग्रहो यदा कर्तरि तदा प्राप्ता जीविका यं पुरुषमिति॥ इप्तच्छितातीतपतितगतात्यस्तैः ॥ २१ ॥
तच्छन्देन प्राप्तापन्नयोर्ग्रहणम् । इवन्तं श्रित अतीत पतित गत अत्यस्त इत्येतैश्च सह षसो भवति । जीविकां प्राप्तो जीविकाप्राप्तः। मुखापन्नः । धर्मश्रितः। संसारमतीतः। संसारातोतः । नरकं पतितो नरकपतितः। मोक्षं गतो मोक्षणतः । तुहिनमत्यस्तस्तहिनात्यस्तः । इषितिपदं सूत्रे वानिर्दिष्टे चोक्तं न्यगिति न्यक्संज्ञ
Rames