________________
१२४
महावृत्तिसहितम् |
समत्वं भूमेः समत्वं पदातेरिति । उत्तरपदार्थप्रधाने तु समा भूमिः समभूमिरिति स एव । हसे पूर्वपदस्य केचिन्मकारान्तत्वमपीच्छन्ति । समम्भूमि । समम्पदाति । सुषमम् । विषमम् । निःषमम् । दुःषमम् । अवरसमम् । समशब्देन पूर्वपदार्थ प्राधान्ये हसः । अत्र शोभनत्वं समस्येत्येवमादिवाक्यमप्यूह्यम् । उत्तरपदार्थप्राधान्ये तु चसः । समाशब्दः संवत्सरवाचि । तेन वक्ष्यमाणो हसः । आयतीसमा । आयतीसमम् । पापसमम । पुण्यसमम् । केचित्तु समशब्देनैव भासमिच्छन्ति । आयत्या सममायतीसमम् । प्रगतमन्हः प्रान्हम् । उत्तरपदार्थ प्राधान्ये षसः । प्रान्हे कल्याणनामानावुदितौ तिष्यपुनर्वसू । प्ररथम । प्रसृगम् । प्रदक्षिणम् । अपदक्षिणम् । सम्प्रति । असम्प्रति । इच् । दण्डादण्डि । मुसलामुसलि । जइजिति इच् सान्तः । अन्यस्यापीति पूर्वपदस्य दीत्वम् । चशब्दोऽवधारणार्थः । तिष्ठद्ग्वादीन्येव नान्यैः सह वृत्तिं लभन्ते । परमं तिष्ठद्गु । सन्महत्परमेत्यादिना पसेो न भवति ।
पारे मध्ये तया वा ॥ १५ ॥
पारेमध्ये शब्द तान्तेन सह हसो भवति वावचनासोऽपि । प्रकृतेन वाग्रहणेन वाक्यस्य साधुत्वमभ्यनुज्ञायते । हसन्नियोगेन वानयेोरेकारान्तता निपात्यते । पारं गङ्गायाः । मध्यं गङ्गायाः । पारेगङ्गम् । मध्येगङ्गम् । तासपक्षे गङ्गापारम । गङ्गामध्यम् ॥
संख्या वंश्येन ॥ १६ ॥
विद्याजन्मादिकृतः सन्तानो वंशः । तत्र भवा