________________
१२०
महावृत्तिसहितम् । यथा इत्येता शन्दाववधति असादृश्य इत्येतयोरथयो। सुपा सह यथासंख्यं हसो भवति । यावदमनं यावदवकाशमतिथीन् भोजय । यावन्त्यमत्राणि तावतो भोजयेत्यवधार्यते। यथावृह साधूनर्चय। यथापटु । यथाध्यापकम् । वृडानतिक्रमेणेत्यर्थः।उत्तरपदार्थानतिवृत्तिर्यथाशब्दस्यार्थी वीप्सा सादृश्यञ्च । अवधृत्यसादृश्य इति किम् । यावद दत्तं तावद्भुक्तम् । यथा देवदत्तस्तथेन्द्रदत्तः। पूर्वेणैव यथार्थ इसे सिद्ध सादृश्ये प्रतिषेधार्थमिह यथाशब्दापादानम् । गुणक्रियाछायासादृश्ये हसो वक्तव्यः॥ गुणः । यथाशक्ति । यथाबलम् । क्रिया । यथोपदेशम् । छाया। पथासुखम् । न वक्तव्यम् । अत्राप्युत्तरपदाथानतित्तिर्गम्यते ।।
स्तोके प्रतिना ॥9॥ झीति निवृत्तम् । स्तोकं मात्रा । स्तोकेऽथै प्रतिना सह सुबन्तं हसो भवति । सूपस्य मात्रा सूपप्रति । शाकप्रति । स्तोकइति किम् । वृहं प्रति विद्योतते विद्युत् । बक्षणेऽत्र प्रतिशब्दो वर्तते ।।
परिणा तशलाकासंख्याः ॥८॥
अक्षशब्दः शलाकाशब्दः संख्या च परिणा सह हसो भवति । परिणाक्षशलाकासंख्यमिति सिद्धे बहुवचन निर्देशादिसंग्रहो लब्धो वेतिसिंहावलोकनाटा । अक्षादयो यदा भान्ता एकत्वचाक्षशलाकयोः पूर्वोक्तस्थान्यथावृत्तौ परिशब्दो यदा वर्तते कितवव्यवहारविषये तदा वृत्तिरिष्यते। तथाहि पश्चिका नाम द्यूतं यत्र पञ्चाक्षाः
।