________________
जैनेन्द्रव्याकरणम् । दुर्गन्दिकम् । दुर्घवनम् । शब्दप्रभवः शब्दस्य प्रकाशमानता। श्रीदत्तस्य शब्दप्रभव इतिश्रोक्तम् । तच्छ्रीदत्तमहो श्रीदत्तम् । श्रीदत्तशब्दो लोके प्रकाशत इत्यर्थः । पश्चात् । रथानां पश्चादनुरथं पादातम् । यथार्थो योग्यता। अनुरूपं सुरूपो वहति । सादृश्यमपि यथार्थः । उत्तरत्रासादृश्य इति प्रतिषेधाज्ज्ञायते । सदृशं व्रतस्य सव्रतम् । सशोलम् । हे काल इति सहस्य लादेशः। पूर्व पूर्वमनुपूर्व तस्य भाव भानुपूर्व्यम् । अनुज्येष्ठं प्रविशन्तु भवन्तः । ज्येष्ठानुक्रमेणेत्यर्थः। श्रानुपूर्व्य विन्यासविशेष इतियथार्थात् पृथगुक्तम्। योगपद्यसम्पत्साकल्यान्ताक्तिषु सहशब्दो वर्तते। योगपद्यमेककालता। सचक्रं धेहि । युगपञ्चक्रे धेहोत्यर्थः । सधुरं प्राज। युगपद्धरौ प्राजेत्यर्थः । सम्पत् सिडिः । आत्मभावनिष्पत्तिरित्यर्थः । वृत्तस्य सम्पत् क्षत्रस्य सम्पत् सवृत्तं साधूनाम् । सक्षत्रं शालकायनानाम् । साकल्य । सतृणमभ्यवहरति । सर्वेण सहाभ्यवहरतीत्यर्थः । अन्नः समाप्तिः। प्राभृतपर्यन्तमधीते। एवं सबन्धं सटीकम् । अत्र परिसमाप्तिरसाकल्येऽप्यध्ययने प्रतीयत इति साकल्ये नन्तर्भावः। इह आचण्डालं प्रयच्छतीति अन्ताक्तिरभिविधिरप्यस्ति। परत्वात्पर्यपावहिरन्चवःकयेति विभाषा भवति । आचण्डालमाचण्डालेभ्य इति । वीप्सायां वा हसे। वक्तव्यः । प्रत्यर्थम् । प्रतिपर्यायम् । अर्थमर्थ प्रति । पर्याय पर्यायं प्रति ॥
यावद्यथावधृत्य सादृश्ये ॥ ६ ॥ प्रसक्तस्य परिमाणमवधृतिः। सादृश्यं तुल्यतायावत्