________________
जैनेन्द्रव्याकरणम् । शलाका वा पात्यन्ते पवस्वेकरूपासु पातयिता जयत्यन्यथा पाते जीयते । अक्षेणेदं न तथा वृत्तं यथा पूर्व जये अक्षपरि । शलाकापरि । संख्या । एकपरि । द्विपरि । त्रिपरि । चतुःपरि । परिणेति किम् । सुबन्तमात्रे मा भूत् । अक्षादय इति किम् । पाशकेनेदं न तथा वृत्सम् । एकत्वेक्षशलाकयोरिति किम् । अक्षाभ्यां न तथा वृत्तम् । कितवव्यवहार इति किम् । अक्षणेदं न तथावृत्तं शकटे॥
वा ॥६॥ वेत्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामस्तद्वा भवतीति वेदितव्यः । इत उत्तरः सविधिर्वा भवति पक्ष वाक्यमपि साधु भवति । पूर्वस्तु सविधिनित्यः । तेनास्वपदेन तत्र विग्रहो ज्ञेयः ॥
पर्यपाबहिरञ्चवः कया ॥ १० ॥ परि अप आऊ बहिस अचु इत्येते सुबन्ताः कान्तेन सह वा सो भवति । परित्रिगर्त वृष्टो देवः । वाक्यपक्षे परेर्वजने वा वचनमिति वा द्वित्वम् । परि परि त्रिगर्तेभ्यः । परि त्रिगर्तेभ्यः । अप त्रिगर्तेभ्यः। वर्जन ऽपपरिभ्यामिति का । आपाटलिपुत्रं वृष्टो देवः । आ पाटलिपुत्रात् । आकुमारं यशः समन्तभद्रस्य । आ कुमारेभ्यः । काडामर्यादावचन इति मर्यादाभिविध्योः का। बहिग्रामम् । बहिग्रामात् । इदमेव ज्ञापकं बहिःशब्दयोगे का भवति । अयं । प्राग्ग्रामात् । प्राची दिनमणीया इति वगृह्य दिक्छब्दभ्यो वा केभ्योऽस्तादिन्देशयोः काल इति अस्तात् । तस्याश्चेरुबित्युप । सुपो मेरिति सुप उप ।