________________
जैनेन्द्रव्याकरणम् |
११५
भ्यसिति का । ङस् ओस् आमिति ता । ङिओस् सुप् इति इप् । तासां ग्रहणं सुव्वि भक्त्युपादानार्थम् । सपूर्वायावाया इत्येवमादयो निर्देशाः सैात्राः ॥
इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्ती प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ २ ॥ समर्थः पदविधिः ॥ १ ॥
परिभाषेयम् । समर्थपदाश्रयत्वात् समर्थः । पदसम्बविधिः पदविधिः । सर्वः पदविधिः समर्थो वेदितव्यः । समर्थानां पदानां विधिर्वेदितव्य इत्यर्थः । द्विविधं साम
मेकार्थी भावः परस्परव्यपेक्षा च । तत्र सविधिनामधुहद्विधिषु स्वभावत एकार्थीभावः सामर्थ्यमन्यत्र व्यपेar । एकार्थीभावे सङ्गतार्थः संस्पृार्थो वा समर्थः । व्यपेचाय सम्बडार्थः सम्प्रेक्षितार्थो वा समर्थः । वक्ष्यति इप् तच्छ्रितातीतपतितगतात्यस्तैः। धर्मं श्रितो धर्मश्रितः समर्थग्रहणं किम् । व्याचष्टे मुनिर्धर्मे श्रितः शिष्यो गुरुकुलम् । अत्र व्यपेक्षा नास्ति । भा गुणेोक्तार्थेनानैः । मदेन पटुमदपटुः । समर्थग्रहणं किम् । दन्ती भ्रमति मदेन पटुः शास्त्रेण । अप्तदर्थार्थबलिहितसुखरक्षितैः । रथाय दारु रथदारु । समर्थग्रहणं किम् । गच्छ त्वं रथाय दारु देवदतस्य गेहे । का भीभिः । संसाराद्भयं संसारभयम् । समर्थग्रहणं किम् । ध्यानी निःक्रामति संसाराद्भयमरण्ये | ता । मोक्षस्य मार्गो मोक्षमार्गः । समर्थ ग्रहणं किम् । अनन्तसुखं मोचस्प मार्गः स्वर्गस्य व्रतम् । ईप्छौण्डैः । अक्षेषु शौण्डो ऽक्षशण्डः । समर्थग्रहणं किम् । मूढः शक्त क्षेषु शैौण्डः पिबति पानागारे | पदग्रहणं किम् ।