________________
११४
महावृत्तिसहितम् ।
fararse | त्यनियमेोऽर्थनियमो वा । एकार्थ एव साधने एको भवति द्व्यर्थ एव साधने द्विर्भवति बह्नर्थ एव बहुर्भवतीति त्यनियमः । एकार्थे साधने एक एव भवति द्वयर्थे द्विरेव भवति बह्नर्थे बहुरेव भवतीत्यर्थनियमः | त्यनियमपक्षे सुपो भेरिति वचनं ज्ञापकमेकत्वादीनामभावेऽप्युत्पद्यन्ते केः सुप इति । अर्थनियमपक्षे एकत्वादयो नियता त्यान्न व्यभिचरन्ति त्याः पुनरनियता एकत्वादीनामभावे व्यतिकरणेन झिसकेभ्यो भवन्ति । तत्र सुपो रित्युचि कृते सुबन्तं पदं भवति ॥ विभक्ती ॥ १५६ ॥
सुप इत्यनुवर्तते त्रिश इति च । सुषां त्रीणि त्रीणि वचनानि विभक्तीसंज्ञानि भवन्ति । सु श्री जसिति त्रिको वर्गस्तस्त्र विभक्तो इति संज्ञा । त्रिकसमुदाये संज्ञा विहिता अवयवे ऽप्युपचर्यते । एवं सर्वत्र सुपां त्रिकेषु योज्यम् । मिड विभक्तीसंज्ञायां न गुणेो नापि देोषः । विभक्तीशब्दस्य कथं सिद्धिः । विपूर्वाद्भजेः क्तिच्कृतौखाविति क्तिच् तस्मात् कृदिकारादत्तेरिति ङीविधिः । महासंज्ञाकरणमुत्तरार्थम् ॥
तासामापपरास्तदुलचः ॥ १५७ ॥
तस्य विभक्तीशब्दस्य हलोऽचश्च आकारपकारपरास्तासां विभक्तीनां यथासंख्यं संज्ञा भवति । वा इप् भा अप का ता ईप् इति एताः संज्ञाः । सुपस्त्रिश इति चानुवर्तते । सुश्री जसिति वा । अम् श्राट् शसिति इप्टा भ्यां भिसिति भा । ङे भ्यां भ्यसिति अप् । ङसि