________________
Ro
m
anture
जैनेन्द्रव्याकरणम् ।
एकद्विबहवश्चैकशः ॥ १५४ ॥ यान्यस्मद्यष्मदन्यसरज्ञानां संज्ञित्वेनोपात्तानि षट त्रिकाणि तान्येकश एक द्वि बहु इत्येवंसंज्ञानि भवन्ति । मिबित्येकः। वसितिद्विः।मसिति बहुः। एवं शेषेषु त्रिकेषु योज्यम् । अस्मदादिसज्ञाः पुंल्लिङ्गा एकादिभिः सह समाविशन्ति ॥
सुपश्च ॥ १५५ ॥ त्रिश इति वर्तते। सुपश्च त्रिकाणि एकविघहु. संज्ञानि भवन्त्येकशः।सु इत्येकः । श्री इति द्विः। जसिति बहुः । एवं शेषेषु त्रिकेषु नेयम् । उभयत्र चशब्दः साधने स्वार्थ इत्यस्यानुकर्षणार्थः । एकार्थे साधने एको मिप भवति । द्वयर्थे दिवस । वहथै बहुर्मस् । एवं मिक्षु सुप्सुचयोज्यम् । ननु चसाधने स्वार्थ इत्येतन्मिङ उपपद्यते यतः साधन कारक क्रियाया निर्वर्तक क्रिया च ध्वः। घोश्च मिडो विहिता इति साधनवाचित्वोपपत्तेः। सुपस्त्वक्रियावाचिनो ड्याम्मृदो विधीयन्त इति तन्त्र साधने स्वार्थ इत्येतन घटते । नैष दोषः । अक्रियावाचिनोऽपि विधीयमानाः सुपः क्रियावाचिपदान्तरमाकाङ्क्षन्ति । पदान्तरवाच्यायाः क्रियायाः साधनभावोपपसेसुप्स्वपि.साधने स्वार्थ इत्ययं व्यवहारो युज्यते । देवदत्ता पचति । देवदत्तौ पचतः । देवदत्ताः पचन्ति । यत्रापि क्रियापदंन प्रयुज्यते वृक्षः प्लक्ष इति तत्राप्यस्ति भवतीति परः सनिहितस्तद्पेक्षया व्यवहारः । मिङ सामान्येन धुमात्राविधीयन्ते सुपश्च मृन्मानासषां सङ्करण प्राप्ती