________________
[११२ महावृतिसहितम् । ऽयम् । ततोऽस्मदादिपदानामनुप्रयोगे सत्यति चास्म-1 दादयो भवन्ति । अहं पचामि । आवां पचावः । वयं पचामः । पचामि । पचावः । पचामः । त्वं पचसि । युवा पचथः । यूयं पचथ। पचसि । पचथः । पचथ। स पचति । तो पचतः । ते पचन्ति । पचति । पचतः । पचन्ति । एवं दविधावपि योज्यम् । भावे ऽस्मद्युष्मदर्थयोरभावात् भावस्य चाभ्यामन्यत्वादेकत्वाच तस्मिन् साधने ऽन्य एव भवति । आस्यते भवता । ग्लायते भवता । यत्रा. स्मदाद्यर्था युगपत् साधनं तत्र क इष्यते । पूर्वनिर्णयेन यः पूर्वः। अत्र किमस्मदर्थ एव साधने ऽस्मद् भवति इत्यवप्रियते आहोस्विदस्मदर्थे साधने ऽस्मदेव भवतीति । उभयथाऽप्यदोषः सर्वेषां नियतत्वात् । ननु द्वितीये पक्षे त्वया कुर्वाणेनेत्यत्र दोषः । मैवम् । त्रिकापेक्षया नियमो न साधनापेक्षया ॥ प्रहालेमन्यवाचि युष्मन्मन्यतेरस्मदेकवच्च ॥१५३॥
मन्य इति मन्यतेरेकदेशः । ब्रूते इति वाक् । मन्यो वाक् यस्य प्रहासस्य तस्मिन् मन्यवाचि प्रहासे गम्यमाने युष्मद्भवति मन्यतेश्चास्मद्भवति एकवच । अस्मद्यष्मदोर्व्यत्ययार्थोऽयमारम्भः। एहिमन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पिता । एहि मन्यसे रथेन यास्यामीति प्राप्तम् । एवमेहि मन्ये ओदनं भाक्ष्यसे न हि भक्ष्यसे भुक्तः सो ऽतिथिभिः। द्वित्वबहुत्वविवक्षायामपि मन्यतेरेकवद्भावो भवति। एवं मन्ये रथेन यास्मथन यास्यथेति । प्रहास इति किम् । एहि मन्यसे ओदनं भोक्ष्य इति सुष्ठु मन्यसे साधु मन्यसे॥
-
-
acadensar
momen