SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ nce wererernantara Pratarunnernamasteniwanaww जैनेन्द्रव्याकरणम् । आदित्यः । सङ्गस्यत इत्यत्र क्रमो मे दीत्वं गमेरिणमे इति हद् प्रसज्येत । शतरि मसंज्ञा सावकाशेति मिक्षु वक्ष्यमाणाभिरस्मदादिभिः संज्ञाभिबाध्यत्वं नाशकनीयम् । सावैम्म इति वचनं ज्ञापकं मिड मसंज्ञाऽपि भवतीति ॥ इङानं दः ॥ १५० ॥ इडिति प्रत्याहार इडित्यतः प्रभृति ा झडो कारंण । इङ च आनश्च दसंज्ञौ भवतः। इट् पहि महि थास प्राथाम् ध्वम् त श्राताम् झ। आन इति शानो गृह्यते ॥ मिङस्त्रिशोऽस्मद्युष्मदन्याः ॥ १५१ ॥ मिङो मसंज्ञानि दसंज्ञानि च त्रीणि त्रीणि वचनानि अस्मद्युष्मदन्य इति एवंसंज्ञानि भवन्ति । मिप् वस मसित्यस्मद् । सिप थस् थेति युष्मद् । तिप् तस् झोत्यन्यः । दानामपि । इद् वहि महि इत्यस्मद् । थास् आथां ध्वमिति युष्मद् । तातां झङित्यन्यः । मिङ इति किम् । अनुत्तरस्य दस्य मस्य च ग्रहणार्थम् । त्रिश इति संख्यैकाद्वीप्सायामिति शस् ॥ साधने स्वार्थे ॥ १५२ ॥ अस्मदादयोऽन्वर्थसंज्ञा अनुवर्तन्ते । लस्येत्यधिकृत्याविशेषेण मिङादयो विहितास्तनियमोऽयम् । स्वस्यार्थः स्वोऽर्थो वा स्वार्थस्तस्मिन् स्वार्थे साधने ऽस्मदादयो वेदितव्याः । अस्मत्पदस्याथै साधने ऽस्मत्रिकं युष्मत्पदयार्थे साधने युष्मत्रिकमाभ्यामन्यस्याथै साधने ऽन्य त्रिकं भवति । अस्मदाद्यर्थानां साधनत्वे सति नियमो. mamapeewan
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy