________________
११० महावृत्तिसहितम् । स्वीकृताविति किम् । हस्ते कृत्वा कार्षापणं गतः। नात्र दारस्वीकारः । पुनस्तिग्रहणं नित्यार्थम् ॥
प्राध्वं बन्धे ॥ १४६ ॥ प्राध्यामिति मकारान्तो भिसंज्ञः शब्द आनुलोम्ये वर्तते । प्राध्वंशब्दः कृषि तिसंज्ञा भवति बन्धो निमित्तं चेत् । प्राध्वसत्य । बन्धनिमित्तमानुलाम्यमिह प्राध्वंकरणम् । बन्ध इति किम् । प्रगतमध्वानं प्राध्वं कृत्वा शकटं गतः। तिकुप्रादय इति षसः। गेरध्वन इति सान्तोऽकारः । प्रतिपदाक्तपरिभाषानाश्रयणे प्रत्युदाहरणमिदम् ॥
जीविक्षोपनिषदाविने ॥ १४७ ॥ उपनिषद्रहस्यम् । जीविका उपनिषदित्येता शब्दाविवशब्दस्यार्थे कृत्रि तिसंज्ञौ भवतः । जोविकाकृत्य । उपनिषत्कृत्य । जीविकामिव उपनिषदमिव कृत्वेत्यर्थः । इवार्थ इति किम् । जीविकां कृत्वा गतः॥
प्राग्धोस्त ॥ १४८ ॥ प्रयोगनियमोऽयम् । ते गितिसंज्ञा धेः प्रागेव प्रयोकव्याः । तथा चैवोदाहृतम् । ते इति वचनं किमर्थम् । अनन्तराणां तीनां गीनां च ग्रहणार्थम् ॥
लो मम् ॥ १४६ ॥ नवानां लकाराणामनुबन्धापाये ल इति सामान्येन निर्देशः। लादेशो मसंज्ञो भवति । मिप वस् मस सिप थस् थ तिप् तस झि शतृ । नपा निर्देशः पुंल्लिङ्गया दसंज्ञया बाधा यथा स्यात् । समावेशे हि आक्रमत
-