SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १०६ भद्रा। रोचना । लोचना। अमा । आस्था । अडा। प्रास्त्रा।प्राजयो । प्राजरहा। वीजा। वीजरुहा । संसयों। अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आईम् ।। तिसन्नियोगेलवणादीनांमकारान्तत्वं निपात्यते । अग्नौ । वसे । विकम्पने । विहसने । अग्नाप्रभृतय ईबन्तप्रतिरूपका निपातनं वा । वेति व्यवस्थितविभाषानुवर्तनाल्ल. वणादीनां व्यन्तानां मकारौकारनिपातनं न भवति । लवणीकृत्य । वसीकृत्य । नमस् । प्रादुराविःशब्दा ऊर्यादिष्वपि पठ्यते । तयोः कृषि विकल्पार्थ इह पाठः ॥ मनस्यरस्यनत्याधाने ॥ १४३ ॥ मनसिउरसिशब्दी ईबन्तप्रतिरूपको निपातनं च। अत्वाधानमुपश्लेषः । मनसि उरसि इत्येता अनत्याधानेऽर्थे कृषि वा तिसंज्ञौ भवतः । उरसिकृत्य । उरसि कृत्वा । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अनन्याधान इति किम् । उरसि कृत्वा पाणिं शेते ॥ मध्ये पदे निवचने ॥ १४४ ॥ अनत्याधान इति वर्तते । मध्ये पदे निवचने इत्येते शब्दाः कृषि वा तिसंज्ञा भवन्ति अनत्याधाने । एकारान्तता पूर्ववद्वेदितव्या । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । मिवचने इति वचनाभावे वर्तते । निवचनेकृत्य । निवचने कृत्वा । अनत्याधान इत्येव । हस्तिनः पदे कृत्वा हस्तमास्ते ॥ हस्ते पाणी स्वीकृती तिः ॥ १४५ ॥ हस्ते पाण इत्येता स्वीकृलावर्थे कृत्रि तिसंज्ञा भवतः । हस्तेकृत्य । पाणाकृत्य । भायों कृत्वेत्यर्थः । nau RINRNaresentale Daularuaats - सन -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy