SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०८ महावृत्तिसहितम् । अवचनात्मिका प्रतिपत्तिरनुपदेशः। अदःशब्दोऽनुपदेशे तिसंज्ञो भवति । अदाकृत्य । अनुपदेश इति किम् । अदः कृत्वा गतः । एतत् कृत्वा गत इति परस्य कथयति ॥ तिराऽन्तः ॥ १३६ ॥ तिरःशब्दोऽन्त ने तिसंज्ञो भवति । तिरोभूय । अन्त विति किम् । तिरो भूत्वा स्थितः । तिर्यग्भूत्वा स्थित इत्यर्थः॥ वा कृजि ॥ १४० ॥ तिरःशब्दोऽन्ताडौं कृत्रि वा तिसंज्ञो भवति । प्राप्ते विकल्पः। तिरस्कृत्य ।तिरः कृत्वा । तिरसो वेति सत्वम् । अन्त वित्येव । तिरः कृत्वा काष्ठं गतः॥ उपाजेऽन्वाजे ॥ १४१॥ उपाजे अन्वाजे ईबन्तप्रतिरूपकावेतो कृत्रि वा तिसंज्ञौ भवतः । उपाजेकृत्य । उपाजे कृत्वा । अन्वाजाकृत्य । अन्वाजे कृत्वा । दुर्बलस्य भग्नस्य वा बलाधानं कृत्वेत्यर्थः ॥ साक्षादादिः ॥ १४२ ॥ वेति वर्तते । साक्षात्मभृतीनि शब्दरूपाणि कृषि वा तिसंज्ञानि भवन्ति। विडातर्यादिरित्यतो मण्डूकप्लुत्या च्विग्रहणमर्थपरमनुवर्तते । तेन च्व्यर्थे तिसंज्ञावि. कल्पोऽयम् । साक्षात्कृत्य । साक्षात्कृत्वा । मिथ्याकृत्य । मिथ्याकृत्वा । यदा विरुत्पद्यते तदा विडाजूर्यादिरित्यनेन नित्यं तिसंज्ञा भवति । साक्षात् । मिथ्या। चिन्ता। IHARIDASHdmarane manand namasan mummon
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy