________________
जैनेन्द्रव्याकरणम् ।
१०३
योजकः प्रेरकस्तस्य स्वतन्त्रस्य योजको योऽर्थस्तत् कारक हेतुसंज्ञं भवति । पुल्लिङ्गकर्तृसंज्ञासमावेशात् कर्तृसंज्ञं च । कारयति । भोजयति । हेतुत्वातुमतीति णिच । कर्तृत्वाल्लकारवाच्यता । गौणस्यापि योजकस्य हेतुत्वम् । भिक्षा वासयति । कारीषेोऽग्निरध्यापयति । तद्योजक इति वचनं ज्ञापकं तृजकाभ्यां कर्तरीत्यस्य तासप्रतिषेधस्यानित्यत्वम् ॥
निः ॥ १२६ ॥
अधिकारोऽयम् । प्राग्धोस्ते इत्यतः प्राक् । यानित उर्द्धमनुक्रमिष्यामो निसंज्ञास्ते वेदितव्याः । वक्ष्यति चादिरसत्वे । च वाह अह एव । निरिति पुल्लिङ्गनिर्देश: किमर्थ: गितिसंज्ञाभ्यां समावेशी यथा स्यात् । निप्रदेशा निरेकाजनाङित्येवमादयः ॥
चादिरसत्वे ॥ १२१ ॥
सीदत अस्मिंलिङ्गसंख्ये इति सत्वम् । लिङ्गसंख्यावदद्रव्यमित्यर्थः । चादयो निसंज्ञका भवन्ति न चेत् सत्वे वर्तन्ते । चवा हा ग्रह एव एवम नूनम् शश्वत् भूपत् कूपत् कुवित् नेत् चेत् चण् कचित् यत्र नह ह त माकिम नकिम् माङ् । ङकारो माङि लुङीति विशेषणार्थः । अङिति माशब्दे माऽभवत् मा भविष्यति । न नञ् । ञकारो नञिति विशेषणार्थः । नहि वात्वाक ननु चत्वेच तु है न्वै नुवै रूवै रेवै श्रौषट् वौषट् स्वाहा स्वधा ओम् तथाहि खलु किल अथ अवस् स्म अस्मि आ इ उ ऊ ऋ लृ ए ऐ ओ औ उञ सुञ आदह आतङ्क वेलायाम् मात्रायाम् यावत् यथा किम् यत् तत् यदि पुरा धिक् हे हो पाट प्याट उताहो