________________
mummatrimost
M
dambaseDNUNAAMRUARODHAMAARI
महावृत्तिसहितम् । देवदत्तः । विलापयति देवदत्तम् । चशब्दो ऽनुक्तसमुच्चयार्थः । तेन ह्वयत्यादिषु न भवति । यति देवदत्तः ।हापयति देवदत्तेन । क्रन्दति देवदत्तः। क्रन्दयति देवदत्तेन ।
हक्रोर्न वा ॥ १२३ ॥ ह कृ इत्येतयारण्यन्तयोर्यः कर्ता स ण्यन्तयोन वा कर्मसंज्ञो भवति । नवेति निर्देशात् प्राप्त चाप्राप्त च विकल्पः । प्राप्ते । अभ्यवहरति देवदत्तः। अभ्यवहारयति देवदत्तं देवदत्तेनेति वा । विहरति देवदत्तः । विहारयति देवदत्तं देवदत्तेनेति वा । विकुर्वते सैन्धवाः। विकारयन्ति सैन्धवान् सैन्धवैरिति वा । अद्यर्थगन्धर्थे धिसंज्ञायां पूर्वेण प्राप्तिः। अप्राप्ते। हरति माणवको भारम । हारयति माणवकं माणवकेन वा । करोति कटं देवदत्तः । कारयति कटं देवदत्तं देवदत्तेन वा । चकारोऽनुक्त समुच्चयाऽनुवर्तते । तेन अभिवदिदृश्योर्दविषये विकल्पः । अभिवदति गुरूं देवदत्तः । अभिवादयते गुरुं देवदत्तं देवदत्तेन वा । पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यान भृत्यैरिति वा । णिच इति दविधिः।
स्वतन्त्रः कता ॥ १२४ ॥ स्वतन्त्र आत्मप्रधानः । क्रियासिौ स्वतन्त्रो योऽर्थस्तत् कारकं कर्तृ संज्ञो भवति। देवदत्तः पचति । देवदत्तेन कृतम् । प्रेषितः करोतीत्यत्रापि स्वातन्त्र्यं गम्यते । अनिच्छायामकरणात् । इह स्थाली पचतीति स्वातन्यं विव. क्षितम् ।।
तद्योजको हेतुः॥ १२५ ॥
-