________________
ladanandindains
जैनेन्द्रव्याकरणम् । यति देवदत्तेन । भारं वहति वाहीकः । वाहयति वाहीकेन । यदा गत्यर्थतासंभवस्तदा भवति कर्मसंज्ञा । वहन्ति पलीवदी यवान् । वाहयन्ति बलीवदीन यवान् । प्रवहत्युदकं देवदत्तः । प्रवाहयत्युदकं देवदत्तम् ॥ अद्यर्थेषु अदिखाद्योः प्रतिषेधो वक्तव्यः॥ * ॥ अत्ति देवदत्तः । आदयति देवदत्तेन । खादयति देवदत्तः । खादयति देवदत्तेन ॥ अथवा सर्वमद्यर्थकार्यमदन भवति इति वक्तव्यमधिकरणे तविधि मुक्त्वा ॥ * ॥ आदयते माणवकेन । चल्यद्यर्थादिति ममापि न भवति । भक्षिरहिसार्थः कर्मसंज्ञो न भवति इति वक्तव्यम् । भक्षयति पिण्डी देवदत्तः । भक्षयति पिण्डी देवदत्तेन । अहिंसार्थस्येति किम् । भक्षयति बलीवर्दो यवम् । भक्षयति बलीवदं यवम् । अत्र हिंसाऽस्ति । वनस्पतिकायानां प्राणित्वात् । प्रकृतेन कर्मणा अकर्मका इह गृह्यन्ते तेन धिग्रहणे कालादिकर्मणः कती कर्मसंज्ञो भवति । प्रास्ते मासं देवदत्तः । आसयति मासं देवदत्तम् । आस्ते गोदाहं देवदत्तः । आसयति गोदोहं देवदत्तम् । आस्ते क्रोशं देवदत्तः। प्रासयति क्रोश देवदत्तम् ।।
शब्दे च ॥ १२२ ॥ शब्दे कर्मभावेन क्रिवाभावेन च यो धुर्वर्तते तस्याण्यन्तस्य कर्ता गा कर्मसंज्ञो भवति। शब्दकर्मणः शृणोति देवदत्तः शब्दम् । श्रावयति देवदत्तं शब्दम् । उपलभते देवदत्तः शब्दम् । उपलम्भयति देवदत्तं शब्दम् । अधीते माणवकस्तर्कम् । अध्यापयति माणवकं तर्कम् । शब्द क्रियस्य । जल्पति देवदत्तः । जल्पति देवदत्तम् । विलपति |
-