________________
१००
महावृत्तिसहितम् । जैनेन्द्रः । अकर्मणां गत्यर्थानां च प्रधान एव कर्मणि लादयः । आस्यते माणधको मासम् । आस्यते माणवको | गोदाहम् । गम्यते माणवको ग्रामम् । प्राप्यते माणवको ग्रामम् ॥
ज्ञागम्यद्यर्थधेरणि की गौ ॥ १२१ ॥
ज्ञार्थानां गम्यानामधर्थानां धीनाञ्च धूनामण्यन्तानां यः कर्ता सो सति कर्मसंज्ञो भवति । ज्ञार्थीनाम्।जानाति माणवको धर्मम् ।ज्ञापयति माणवकं धर्मम् । बुध्यते माणवको धर्मम् । बोधयति माणवकं धर्मम् । पश्यति माणवको ग्रामम् । दर्शयति माणवकं ग्रामम् । गंम्यानाम् । गच्छति माणवको ग्रामम् । गमयति माण. वकं ग्रामम् । याति माणवको ग्रामम् । यापयति माणवकग्रामम् । अद्यर्थीनाम् । भुङ्क्ते ओदनं माणवकः । भाजयति माणकमोदनम् । अश्नाति माणवक आदनम् । आशयति माणवकमोदनम् । धीनाम् । प्रास्ते माणवकः । आसयति माणवकम् । शेते माणवकः । शाययति माणवकम् । अत्रापि पूर्ववणिजन्तवाच्यया क्रियया प्रेषणाध्येषणलक्षणया प्राप्यत्वात् कर्मसंज्ञा सिद्धा । यद्यपि स्वातंत्रयमाप्यत्वञ्चास्ति तथापि कर्मवेत्यवधारणात् कर्तृसंज्ञा न भवतीति । एवं सिद्ध नियमार्थमिदं तेषामेवाणी कती ण्यन्ते कर्मसंज्ञो भवति नान्येषाम् । पचत्योदनं देवदत्तः। पाचयत्योदनं देवदत्तेन । अणि कतैति किम् । गमयति देवदत्तो जिनदत्तम् । तमंन्यः प्रयुङक्ते । गमयति देवदत्तेन जिनदत्तम् । नयत्यादयः प्रापणार्थी न गत्यर्थीस्तेनेह कर्मसंज्ञा न भवति। अजां नयति देवदत्तः । नाय