________________
Reme
andinatandonedmaine
d
minto
DIRL.
maMSANATAURABARDAm a
जैनेन्द्रव्याकरणम् । हरतिकृषजयत्यादयो द्विकर्मका उपलभ्यन्ते । तेषां कथं द्विकर्मकत्वं प्रधानाप्रधानकर्मणाः सामान्येनाप्यत्वात् । अजां नयति ग्रामम् । भारं वहति ग्रामम् । भारं हरति ग्रामम् । शाखां कर्षति ग्रामम् । देवदत्तो जिनदत्तं शतं जयति । देवदत्तो ग्रामं शतं दण्डयति । अयं तु विशेषः ।
प्रधानकर्मण्यभिधेये लादीनाहुईिकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः॥
नीयते अजा ग्रामम् । उयते भारो ग्रामम् । हियते भारो ग्रामम् । कृष्यते शाखा प्रामम् । जीयते जिनदत्तः शतम् । दण्ड्यते जिनदत्तः शतम् । अप्रधाने कर्मणि दुहादीनाम् । दुह्यते गाः पयः। याच्यते माणवको गाम् । अबरुध्यते गां ब्रजः। पृच्छयते आचार्यो धर्मम् । भिक्ष्यते देव. दत्तो गाम् । अवचीयते वृक्षः फलानि । उच्यते माणवको धर्मम् । शिष्यते माणवको धर्मम् । गान्ते कर्तुश्च कर्मण इति उत्तरसूत्रेणारयन्तावस्थायां यः क ण्यन्तावस्थायां कर्मतामापनः प्रयोज्यस्तस्याभिधाने लादीनाहुः । बोध्यते माणवकः शास्त्रम् । गम्यते माणवको ग्रामम् । भोज्यते माणवक ओदनम् । आस्यते माणवको मासम् । अध्याप्येते माणवको जैनेन्द्रम् । ननु ण्यन्तेषु धुषु ण्यन्तवाच्यया क्रियया प्रेषणाध्येषणलक्षणया यदाप्यते तत् प्रधानं कर्म । अवयवक्रियया यदाप्यतेऽप्रधानम् । एवं च सति प्रधानकमंण्यभिधेयेलादीनाहुरित्यनेनैव सिद्धत्वादनर्थकमिदंण्यन्ते कर्तुश्च कर्मण इति । नानर्थकं समुच्चयार्थमेतत् प्रधाने कर्मणि लादयो भवन्त्यप्रधाने च । तेन बोध्यते माणवकं धर्मः। भाज्यते माणवकमोदनः । अध्याप्यते माणवकं
-
-