________________
| ९८
महात्तिसहितम् । विशासिगुणेन च यत् सचते तदकोर्तितमाचरितं कविमा।
aar
T
HINRNEELamincomena
दुहि । गां दाग्धि पयः । गाः कारकमपादानत्वेनासीर्तितमपायस्याविवक्षितत्वात् । गोरप्याप्यत्वेन सिडं कर्मत्वमिति चेत् परिगणनार्थमिदं वक्तव्यम् । इह मा भूत् । नटस्य शृणोति श्लोकम् । याचि । माणवकं गां याचते। याचनमात्रेणापायस्याविवक्षितत्वात् । रुधि । गामवरुणद्धि ब्रजम् । सतोऽप्याधारस्थाविवक्षा । अनुदा कन्येति यथा। प्रच्छि । प्राचार्य धर्म पृच्छति । प्रश्नमात्रेणापायस्याविवक्षा।भिक्षि। देवदत्तं गांभिक्षते। चित्र । वृक्षमवचिनोति फलानि । उपयोगनिमित्तं प्रयोगनिमित्तम् । अथवा. उपयोगो दुग्धादि तन्निमित्तं गवादि । इहापि तर्हि स्यात् । पाणिना कांशपायां दाग्धि पाण्यादिकमप्युपयोगनिमित्तमित्याह । अपूर्व विधौ । यस्य पूर्वी विधि!क्तः। इह तु पूर्वमेव करणसञ्ज्ञा अधिकरणसञ्ज्ञा च विहिता। ब्रुविशाख्योर्गुणेन च क्रियया कर्मणा वा यत् सचते सम्बध्यते तदकीर्तितमित्युक्तमाचार्येण ।वि। माणवकं धर्म ब्रूते। शालि। माणवकं धर्ममनुशास्ति । माणवकस्य सम्प्रदानत्वेनाविवक्षा । अकथितमिति किम् । देवदत्तात् गां याचते । चकारोऽनुक्तसमुच्चयार्थः । तेन कालभावाध्वगन्तव्यः कर्मसंज्ञा ह्यकर्मणामिति लब्धम् । काले। मासमास्ते । संवत्सरं वसति । भावे । गोदाहं स्वपिति । अध्वा च स गन्तव्यश्चेति इच्छया विशेषणत्वम् । क्रोशमास्ते । क्रोशं स्वपिति । देशोऽपि कर्मसंज्ञा इति केचित् । कुरूनास्ते । कुरून् स्वपिति । अथ नीवहि