________________
जैनेन्द्रव्याकरणम् । कर्तृग्रहणादाप्यग्रहणसामर्थ्यादा क्रिया लभते । तत्र कर्म॥
प्राप्यं विषयभूतञ्च निर्वर्त्य विक्रियात्मकम् ।
कर्तुश्च क्रियया व्याप्यमीप्सितानीप्सितेतरत् ॥ आप्यत्वसामान्यं सर्वत्र विद्यते । प्राप्यम् । ग्रामं गच्छति । आदित्यं पश्यति । विषयभूतम् । जैनेन्द्रमधीते । हिमवन्तं श्रृणोति । निर्वयम् । घटं करोति । ओदनं पचति । विक्रियात्मकम् । काष्ठानि दहति । घटं भिनत्ति। ईप्सितम्। गुडं भक्षयति । दिन भुङक्त । अनीप्सितम् । ग्रामं गच्छन् व्याघ्रं पश्यति । कटंकानमृद्भाति । अनुभयम् । ग्रामं गच्छन् वृत्तमूलान्युपसर्पति । कति किम् । भाषेष्वश्वं बध्नाति । अश्वेन कर्मणा भक्षणक्रियया माषाणामाप्यानां कर्मसंज्ञा मा भूत् । अथ सर्वाणि कारकाणि काप्यन्त इति कर्मसंज्ञा प्रामोति । नैष दोषः। सर्वेषु कारकेष्वाप्येषु प्राप्यग्रहणसामर्थ्यांदाप्यतमे संप्रत्ययः । तेन करणादिषु न भवति। पयसा प्रोदनं भुङ्क्त। इह कथं कर्मत्वं गेहं प्रविशतीति । आधारस्याविवक्षया ॥
___ अकथितञ्च ॥ १२० ॥ अकथितमसीर्तितम् । अपादानादिभिर्विशेषकारकादिभिरकथितञ्च यत् कारकं तत् कर्मसंज्ञं भवति । अकथितमप्रधानमिति गृह्यमाणे इह देवदत्तात् गां याचत इत्यप्रधानतयाऽपादानसंज्ञा कर्मसंज्ञया बाध्येत ।
दुहियाचिरुधिप्रच्छिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधा॥
।