________________
महावृत्तिसहितम् ।। शकुनयः । गङ्गायां घोषः । गुरौ वसति । यद्धीना यस्य स्थितिः स तस्याधारोऽभिव्यापको विभागाप्रतीतेः । तिलेषु तैलम् । धनि सर्पिः। अधिकरणप्रदेशा ईवधिकरण इत्येवमादयः॥
कर्मैवाधिशीङ्स्यासः ॥ ११६ ॥ अधिपूर्वाणां शीङ्स्था आस इत्येषामाधारो यस्तत् कारकं कर्मसञ्जमेव भवति । ग्राममधिशेते। पर्वतमधितिष्ठति । प्रासादमध्यास्ते । एवकारः पुंल्लिङ्गाधिकरणसज्ञासमावेशनिवृत्त्यर्थः । कर्मप्रदेशाः कर्मणीवित्येवमादयः ।।
वसोऽनपाध्याङः ॥ ११७ ॥ अनु उप अधि आङ् इत्येवम्पूर्वस्य वसतेराधारो यस्तत् कारकं कर्मसंज्ञं भवति । ग्राममनुवसति । गिरिमुपवसति । गृहमधिवसति । वनमावसति । इह कथं ग्रामे उपवसति। भोजननिवृत्तिं करोतीत्यर्थः । अत्रापि त्रिरात्रादेराधारस्य कर्मत्वं प्रतीयते॥
अभिनिविशश्च ॥ ११ ॥ अभिनि इत्येवंपूर्वस्य विशतेराधारो यस्तत् कारक कर्मसंज्ञं भवति । ग्राममभिनिविशते । गेहमभिनिविशते। चकारात् कचिदधिकरणसंज्ञाऽपि भवति । या था संज्ञा यस्मिन्नभिनिविशते । अर्थेष्वभिनिविपुः । कल्याणेऽभिनिवेशः ॥
काप्यम् ॥ ११६ ॥ का क्रियया यदाप्यं तत् कारक कर्मसंज्ञं भवति ।