________________
ॐ सतः'-निघ्नतः, 'तस्य-ब्रह्मणः, हिंसा न भवतीति चेत् चोद्यत इति यदि त्वयैवमुच्यत इत्यर्थः, तर्हि 'सम्पाद्य सम्पाद्य
उत्पाद्योत्पाद्य, ' स्वकीयान् सुतान् '-आत्मीयान् पुत्रान् , 'घ्नता'-हिंसता, 'पितुः '-जनकस्य, 'कोऽपि'-कश्चिद्, 'दोषः -पापं, न भवति ॥ २२॥ __ मूलम्-लीलेयमस्यास्ति यदीति चेद्गी-निहिंसतस्तस्य न चास्ति पापम् ।
एवं हि राज्ञो मृगयां गतस्य, जीवान्नतः पातकमेव न स्यात् ॥ २३ ॥ टीका-अत्रैव पुनर्वादिशंका परिहर्तुमाह-लीलेयमित्यादि इयम्'-पूर्वोक्ता सृष्टिसंहाररूपेत्यर्थः, 'अस्य'-ब्रह्मणः, 'लीला'कौतुकम् , 'अस्ति'-विद्यते, अत एवेति 'हिंसतः'-संहारं कुर्वतः, 'तस्य'-ब्रह्मणः, पापं, 'न चास्ति'-न भवति, इति चेद् 'गी:'-वचनम् , तवास्ति, 'यदि' शब्दश्चरणपूत्तौं ज्ञेयः, तहिं 'ही'ति निश्चये, 'एवम्'-इत्थं सति, 'मृगयां गतस्य'-आखेटाय प्रयातस्य, 'जीवान् '-जंतून् , 'घ्नतः'-हिंसतः, 'राज्ञः'-नृपस्य, 'पातकं'-पापमेव, 'न स्यात्'-न भवेत् ॥ २३ ॥
मूलम्-अथ स्वभावादथ कालतो वा, सृष्टिं नतो नास्ति विभोरघाप्तिः।
स्वभावकालौ यदि चेद् बलिष्ठी, ब्रह्माप्यशस्ते नुदतः क्षयेऽस्मिन् ॥ २४ ॥ एतौ तदेवात्र च हेतुभूती, किं ब्रह्मणा युक्त्यसहेन कार्यम् ।
तद्ब्रह्मणः सृष्टिविधि तथैव, संहारकत्वं च वदन्ति ये तैः ॥२५॥ १. पापाप्तिः।
SASRANAMASSAG