________________
न ब्रह्ममहिमा प्रकटीकृतः किं, निर्दूषणे दूषणमादधे येत् ।
वन्ध्या ममाम्बेति समं निगद्यते, यन्निष्क्रियं बह्म निगद्य कत्रिति ॥ २६ ॥
टीका - पुनरुक्तविषये वादिशंकां परिहर्तुमाह- अथेत्यादि अथेत्युभयत्र प्रश्नद्योतने 'स्वभावात् ' - स्वभावेन, 'वा' - अथवा, ' कालात् ' - कालेन, ' स्वभावस्य ' - कालस्य, वा प्रेरणयेत्यर्थ', 'सृष्टिं ' - संसारं, 'घ्नतः ' - हिंसतः, 'विभोः ' - व्यापकस्य, परब्रह्मण इतिभावः, 'अघाप्तिः - पापप्राप्तिः, ' नास्ति - न भवति, परिहारमाह-स्वभावेत्यादिना ' चेत् ' शब्दचरणपूत, यदि, 'स्वभावकालौ' - स्वभावः कालच, 'बलिष्ठौ ' - बलवंतौ भवतः, यत् 'अस्मिन् ' - पूर्वोक्ते, 'अशस्ते' - निकृष्टे, 'क्षये' - संहारकरूपक्षयकर्मणि, ब्रह्मापि, 'नुदतः' - प्रेरयतः, 'तत्' - तर्हि, 'एतौ एव' - कालस्वभावावेव, 'अत्र' - अस्मिन् क्षये, 'हेतुभूतौ'कारणभूतौ स्तः, ' च ' शब्दचरणपूर्ती, ' युक्त्यसहेन ' - युक्त्या अघटमानेन, ब्रह्मणा, 'किं कार्यम्' - किं प्रयोजनमस्ति, तत् ' - तस्मात् कारणात्, 'ये ' -जनाः, ब्रह्मणः, सृष्टिविधि - सृष्टिविधानं, ' तथैव चे 'ति समुच्चये, ' संहारकत्वं ' - क्षयकर्तृत्वं, ' वदन्ति ' - कथयन्ति, 'तैः '- जनैरिति, 'ब्रह्ममहिमा ' - ब्रह्मणो महत्त्वं, 'न प्रकटीकृतः ' - न द्योतितः, 'किं' - किंतु अपि त्वितिभावः, 'निर्दूषणे ' - दूषणरहिते ब्रह्मणि, ' दूषणं ' - दोषः, ' आदधे ' - धृतम्, ' यत् ' - यस्मात् कारणात् ' निष्क्रियं '– क्रियारहितं ब्रह्म, ' निगद्य ' - कथयित्वा ' कर्तृकारकम् ' - जगतो निर्मापकमितिभावः इत्येतत् यन्निगद्यते
९. यदेव ब्रह्म निरञ्जननिः क्रियानिर्गुणनिःस्पृहादिगुणविशिष्टमुक्त्वा तदेव ब्रह्म कर्तृसंहर्तृरा गिद्वेषिसर्व संसारप्रवर्तकमुच्यत इति निर्दूषणे ब्रह्मणि दूषणं स्थापितमिति तेषां वचो अस्मन्मनो न रञ्जयति किमुच्यते अथ च तैः परस्परविरोधि वचो अङ्गीकृतं तदेवाह ।