________________
॥ १९ ॥
मूलम् - तदा विवेकोऽस्ति न ब्रह्मरूपेऽसौ वा शुंकाद्येषु न योगवत्सु । कार्यं च धार्यं च यदादिपुंसो, निन्द्यं च हेयं च तदन्यपुंसाम् टीका - उक्तकार्ये ' वा ' - अथवा, ' असौ ' - विवेकः, 'योगवत्सु ' - योगयुक्तेषु, नास्ति, उक्तविषयमेव द्रढयति-योग्यम् अस्ति, एकश्चकारश्च रणपूर्ती, 'तत्' - जगत्, शुकादीनाम् योगिनामित्यर्थः, ' निन्द्यं ' - निन्दनीयम्, 'च' - पुनः, 'हेयं ' - त्याज्यं, भवितुम् शक्नोति १ ॥ १९ ॥
'शुकाद्येषु ' - शुकादिमुनिषु, 'अन्यपुंसाम् ' - अन्यजनानाम्, एकश्चकारश्चरणपूर्ती, कथं
मूलम् - तद्ब्रह्मजा सृष्टिरथापि कल्प- स्तज्जो वैदद्भिस्त्विति ब्रह्म मूढं ।
विज्ञाप्यते किं न च तैस्तथैषां वान्ताहृतेर्बह्मणि किं न दोषः १ ॥ २० ॥ टीका - युगान्ते जगतो ब्रह्मणि लीनत्वे दोषमाह - तद्ब्रह्म जेत्यादिना ' तत् ' - तस्मात् कारणात्, 'सृष्टि: '- जगतो रचना, 'ब्रह्मजा ' - ब्रह्मजनिता, ' अथापि ' - अथ च ' कल्पः ' - प्रलयः, 'तज:' - ब्रह्मजातोऽस्ति इत्येतद् ' वदद्भिः 'कथयद्भिः, 'तैः ' - ब्रह्मवादिभिः, 'तु' शब्दश्चरणपूर्ती, किं ब्रह्म, ' मूढं - मूर्ख, ' न विज्ञाप्यते ' - न सूच्यते, ' तथे 'ति
१. शुकादिभिः । २. आदिपुरुषस्य पुराणपुरुषस्यार्थात्परब्रह्मनामनि । ३. शुकादीनां योगिनाम् । ४. ब्रह्मवादिभिः । ५. परब्रह्मादिकर्तृवादिनां । ६. यत्तु सृष्टिकाले स्वस्मात्सर्व निष्कापितं तदा तु तत्सर्व वान्तमिव पुनश्च संहृतिकाले सर्वस्यापि जगत आत्मनि संलीनीकरणाद्भक्षणमिवेति तेन सृष्टिकृता वान्ताहृतिदोषोऽपि न निवारितः ।