________________
टीका - उक्तविषय एव पुष्टिमाह - यदत्रेत्यादिना ' अत्र - अस्मिन् संसारे, 'किले 'ति निश्चये, ' अनित्यं 'विनाशि, वस्तु ' दृश्यं ' - द्रष्टुम् योग्यमस्ति ' तदिदम् ' - पूर्वोक्तमिदम् वस्तु, ' ही 'ति निश्वये, यदि 'सृष्टौ ' -सर्जनकाले, ' ब्रह्मण: ' - ब्रह्मणः सकाशात्, ' जातम् ' -उत्पन्नमस्ति, ' तत् ' - तर्हि, ' एतत् ' - पूर्वोक्तम्, ' जुगुप्स्यं ' - घृणा - योग्यं वस्तु, ' शीघ्रम् ' - आशु, 'केन - कारणेन, 'विहाय ' - त्यक्त्वा, 'योगिनः '- योगाभ्यासकर्तारो मुनय इत्यर्थः, ' विरागं ' - वैराग्यं, ' वृणते ' - स्वीकुर्वन्ति, यदि सर्व ब्रह्मणो जातमभविष्यत्तर्हि मुनयस्तच्छीघ्रं विहाय वैराग्यं नाग्रहीष्यनितिभावः ॥ १७ ॥
मूलम् - यद् द्वेषरागादिविरूपमुज्झ्यं, जगत्स्वरूपं वरयोगवद्भिः ।
तदेव सर्वं खलु ब्रह्मणैव, स्वस्मिन्कथं धार्यमहो युगान्ते ? ॥ १८ ॥
टीका - सर्वस्य ब्रह्मणो जातत्वे सति युगान्ते तस्मिन्नेव तल्लयो न संभवतीत्याह - यद् द्वेपेत्यादिना ' यत् ' -जगत्खरूपं, संसारस्वरूपं, ' वरयोगवद्भिः ' - श्रेष्ठयोगयुक्तैर्जनैः, 'उज्झ्यं ' - त्याज्यमस्ति, कथंभूतम् जगत्स्वरूपम् १- ' द्वेपरागादिविरूपम् ' - रागद्वेपादिभिर्विकृतम्, 'खल्वि'ति निश्चये, तदेव सर्वं ब्रह्मणैव, ' अहो ' - इत्याश्चर्ये, ' युगान्ते ' - युगस्य परिसमाप्तौ, ' स्वस्मिन् ' - आत्मनि, 'कथं ' - केन प्रकारेण, ' धार्यम् ' - धतुं योग्यमस्ति यद्रागद्वेपादिविकृतं ब्रह्मणो जातं जगद् योगिभिस्त्याज्यमस्ति तद्युगान्ते ब्रह्मणा स्वयमेव कथं धार्यं भवितुम् शक्नोतीतिभावः ॥ १८ ॥