________________
वितर्केत्यादि-वितर्कस्य सम्पर्क:-संयोगो यत्रैवंभूतेन कुतर्केण कर्कशं-कठोरं, पुनः कथंभूतम् १ नानेत्यादि-नानाप्रकारकृतीनामनेकविधाकाराणां देवतानामर्चन-पूजनं यत्र तत्, पुनः कथंभूतम् ? वर्णाश्रमेत्यादि वर्णा ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनामाचीर्ण आचरितः पृथक पृथक वृषः-धर्मों यत्र तत्, पुनः कथंभूतम् ? सद्रव्येत्यादि-सद्रव्यनरा:-धनिजनाः, निद्रव्यनरा:धनहीनजना इत्यादिभेदान् बिभर्ति यत्तत् ॥ ८-१५॥
मूलम्-अनेन किं पल्लवितेन येन, यदू दृश्यते तद् विपरीतमेव ।
कार्ये पुनः कारणजा गुणाः स्यु-विद्वांस एवं निगदन्ति तज्ज्ञाः ॥ १६ ॥ टीका-जगतो वैपरीत्यविषय एव पुष्टिमाह-अनेनेत्यादिना' अनेन '-एतेन, 'पल्लवितेन'-विस्तरेण, 'किम् - प्रयोजनमस्ति, 'येन'-कारणेन, ' यद्'-वस्तु, 'दृश्यते'-अवलोक्यते, जगति ' तद्-वस्तु, 'विपरीतमेव'-विरुद्धमेव दृश्यते, ब्रह्मणोऽकर्तृत्वे पुष्टिमाह-कार्य इत्यादिना पुनः ' तज्ज्ञाः '-तत्त्वज्ञानिना, 'विद्वांसः '-विपश्चिता, 'एव 'मिति, 'निगदन्ति'-कथयन्ति, 'कार्य'-कृत्ये, 'कारणजाः'-कारणस्थाः, 'गुणा:'-धर्माः, 'स्युः'-भवन्ति, कारणगुणाः कार्ये भवन्तीतिभावः, यदि जगतः कारणं ब्रह्म तर्हि जगति ब्रह्मगता गुणाः स्युन च सन्ति तेन न जगद् ब्रह्मकृतमित्याशयः॥१६॥ मूलम्-यंदत्र दृश्यं किल वस्त्वनित्यं, तद्ब्रह्मणो जातमिदं हि सृष्टौ।
तद्योगिनः केन विहाय शीघ्र, जुगुप्स्यमेतद् वृणते विरागम् ॥ १७॥ १. संसारे । २. सर्व वस्तु । ३. सर्गकाले । ४. वस्तु ।
HATHIANSHIPIRAISHIPIRIPTOS