________________
Mmg
शरीरम् एतैः ' अङ्कितम् ' - लक्षितम्, यद्वा अमेध्यदौर्गन्ध्याभ्याम् युक्तं यत् कलेवरं तेनांकितम् पुनः कथंभूतम् ? 'दुष्कर्मनिर्मापण मैथुनाञ्चितम् ' - दुष्कर्मणां - पापकर्मणां निर्माण-कारणम् एतादृशं यद् मैथुनं - सूरतं तेन अश्चितं युक्तम्, ' समाश्रयद्धातुकृताङ्गिपुद्गलं ' - समाश्रयन्तः - सम्मिलन्तो ये धातवः - सप्तधातवः तैः कृतानि - विधत्तानि, अङ्गिपुद्गलानि - प्राणिशरीराणि यस्मिन् तत् पुनः कथंभूतम् १ ' सनास्तिकं नास्तिकैः सहितं पुनः कथंभूतम् १ ' ' सर्वमुनीश निंदितम् 'सर्वैर्मुनिराजैर्गर्हितम्, यदि ब्रह्मणा सृष्टि कृता तर्हि मुनीशा अपि तेनैव कृतास्तदा ते परब्रह्मचिन्तकाः सन्तः सकलं संसारस्वरूपं परत्रयाकृतमसारं ज्ञात्वा कथं निन्दन्तीति विचार्यमित्यर्थः पुनः कथंभूतम् । कियदित्यादि कियन्तः स्वकी - याह्वयेन स्वनाम्ना बद्धवैरा यस्मिंस्तत् यस्मिने के ब्रह्मनाम्नि बद्धवैराः सन्तीत्यर्थः पुनः कथंभूतम् ? कियदित्यादि कियत् स्वपूजायां प्रवणं संलग्न मंगिजातं प्राणिसमूहो यस्मिंस्तत् यस्मिन्ननेके ब्रह्मपूजाप्रवणाः प्राणिगणाः सन्तीत्यर्थः पुनः कथंभूतम् । नानात्मेत्यादि ' नानात्मानः ' - नानाप्रकाराः, 'हिन्दूका ' - हिन्दूपदवाच्या, 'तुरुष्काः' - यवना लोका यमिस्तत् पुनः कथंभूतम् । कियदित्यादि कियन्तः परब्रह्मणो निरासे खण्डने हासे च यस्मिंस्तत् यस्मिन्ननेके परब्रह्मखण्डनकर्त्तारस्तदुपहास कर्त्तारश्च सन्तीत्यर्थः पुनः कथंभूतम् ? 'पददर्शनाचारविचारडम्बरं ' - पड्दर्शनानां सांख्यादीनां य आचार:व्यवहारस्तस्य डंबरः- संभारो यस्मिंस्तत् पुनः कथंभूतम् ? प्रचण्डेत्यादि 'प्रचण्डा : ' - प्रबला, ये ' पाखंडिन : ' - सर्वलिंगिनस्त एव घटास्तैर्विडम्बनं - गर्दा यस्मिंस्तत् पुनः कथंभूतम् । सत्पुण्येत्यादि - सत्पुण्येन पापेन चोत्थितमुत्पन्नं यत्कर्म तस्य भोगस्तस्य दायकम् पुनः कथंभूतम् ? स्वर्गापवर्गेत्यादि 'स्वर्गापवर्गादीनां ' - भवान्तराणामुदयो यस्मिंस्तत्, पुनः कथंभूतम् !