________________
टीका - ब्रह्मणो जगत्कारणत्वे दोषमाह- कुर्यादित्यादिना ' यदीदम् ' -उक्तविशेषणविशिष्टमपि ब्रह्म, ' ही 'ति निश्चये चरणपूर्ती वा, ' जगतां ' - चराचराणां ' सर्जनं ' -सृष्टिं, ' कुर्याद्' - विदध्यात्, 'तदा' - तर्हि, 'ईदृशं' - एवंविधं, 'विष्टपं' - जगत्, 'केन' - कारणेन, ' करोति ' - विदधाति, ईदृशशब्दोऽत्र वैपरीत्यद्योतकस्तेन विपरीतं जगत् कस्माद्धेतोः करोतीत्यर्थोऽवगंतव्यः, कथंभूतं जगत् ? इत्याह - जन्मात्ययेत्यादि ' जन्म ' - उत्पत्तिः, ' अत्ययः' - नाशः, ' व्याधयः ' - रोगाः, 'कषायाः' - क्रोधादयः, 'कैतवं ' - छद्म, ' कंदर्पः ' - कामः, ' दौर्गत्यम् ' - दुर्गतिः, इत्येतेषां भयेन ' आकुलम् ' - व्याकुलितम्, भिया! भिराकुलमिति चिन्त्यं पदम्, भिया समाकुलमिति पाठः साधु प्रतिभाति, पुनः कथंभूतं : ' परस्परदोहिविपक्षलक्षितं ' - परस्परं ये द्रोहिणः - द्रोहकर्तारोऽत एव विपक्षाः - शत्रुभूतास्तैर्लक्षितमंकितम् पुनः कथंभूतं ? ' दुःश्वापदव्यालसरीसृपालिकम् 'दुष्टाः श्वापदा व्याघ्रादयो दुष्टश्वापदादियुक्तमित्यर्थः पुनः कथंभूतं ? ' साखेटिकैः, -आखेटकर्तृभिः, ' मैनिकनिकैः '-जातिविशेषः, 'चितं' - व्याप्तम्, पुनः कथंभूतं ? ' दुवोरजारादिविकारपीडितम् ' - दुष्टा ये चोराः - स्तेनाः जारा - व्यभिचारिण इत्यादीनां ये विकारा- उपद्रवास्तैः पीडितमाकुलम्, पुनः कथंभूतं ? कस्तूरिकेत्यादि ' कस्तूरिका' - मृगमदः, ' चामरं ' - प्रकीर्णकम्, दंता: ' - रदाः, 'चर्म ' - अजिनम्, एतेभ्यः, 'सारंग : ' - मृगः, 'धेनुः' – गौः, 'द्विपः ' - हस्ती, 'चित्रकः - व्याघ्रः, इत्येतेषामंतो यत्र तत्तथा पुनः कथंभूतं ? दुर्मारीत्यादि 'दुर्भारि:' - मारिरोगः, 'दुर्भिक्षकम् ' - सस्याभाव:, 'विवरं '- संदिग्धं परम् इत्यादीनि विद्यन्ते यस्मिंस्तत्, पुनः कथंभूतं १ दुर्जातीत्यादि ' दुर्जातीय: ' - दुष्टजातिकाः, 'दुर्योनिकाः ' - दुष्टयोनियुक्ताः, 'कुकीटाः' - क्षुद्रकीटाः, एतैः ' पूरितम् - व्याप्तम्, पुनः कथंभूतं ? अमेध्येत्यादि ' अमेध्यं ' - मलम्, 'दौर्गन्ध्य' - दुर्गन्धः, 'कलेवरं '
१