________________
-
-
समाश्रयद्धातुकृताङ्गिपुद्गलं, सनास्तिकं सर्वमुनीशैनिन्दितम् ॥१२॥ कियेत्स्वकीयालयबद्धवैरं, कियत्स्वपूजाप्रवणाङ्गिजातम् । नानात्महिन्दूकतुरुष्कलोकं, कियत्परब्रह्मनिरासहासम् ॥ १३॥ षड्दर्शनाचारविचारडम्बर, प्रचण्डपापण्डघटाविडम्बनम् । सत्पुण्यपापोत्थितकर्मभोगदं, स्वर्गापवर्गादिभवान्तरोदयम् ॥१४॥ वितर्कसम्पर्ककुतर्ककर्कशं, नानाप्रकाराकृतिदेवतार्चनम् ।। वर्णाश्रमांचीर्णपृथक्पृथग्वृष, सद्रव्यनिद्रव्यनरादिभेदभृत् ॥१५॥
॥ सप्तभिः कुलकम् ॥ १. शरीरं । २. नास्तिका हि कर्तारं न मन्यन्ते तर्हि सृष्टिक स्तद् ज्ञानं नासीद्यदमी ममैव विलोपका भविष्यन्ति न चान पितापुत्रविचारो वाच्यः पिता तु इन्द्रियपरक्शो शानी अनायतिशो यथातथा पुत्रकर्मणि प्रवर्ततां परब्रह्म तु निर्विकारं सज्ञानं चेति स्वसृष्टिनिहवान् कथं नाम करोतीति अथ च तस्य रागद्वेपौ न स्तस्तर्हि सृष्टिसंहारौ कथं करोतीति | विचार्यमाणं विशीर्यते इति सम्यग्ध्येयम् । ३. यदि ब्रह्मणा सृष्टि कृता तर्हि मुनीशा योगिनोऽपि ब्रह्मणैव कृतास्तर्हि ते परब्रह्म|| चिन्तकाः सन्तः सकलं संसारस्वरूपं परब्रह्मकृतं असारं ज्ञात्वा कथं निन्दयन्तीति विचार्यम् । ४. ब्रह्म । ५. ब्रह्म । ६. चत्वारः । ७. चत्वारः । ८ धर्म ।।
ॐॐॐॐॐॐॐॐॐॐ