________________
एव ' - प्रेरणकारकोऽपि एव शब्दोऽपि शब्दार्थः, ' नास्ति ' - न विद्यते, अत्र हेतुमाह - यदित्यादिना ' यत् ' - यस्मात् कार - णात्, 'सकलस्य ' - सर्वस्य, ' वस्तुनः ' - पदार्थस्य कालादेरित्यर्थः, ' स्वस्मिन् ' - आत्मनि, ' गतत्वात् ' - स्थितत्वात्, ये परब्रह्म कर्तृ वदन्ति तन्मते सर्वाणि कालस्वभावादीनि वस्तूनि ब्रह्मगतान्येव सन्ति, तथा च सति तस्माद् ब्रह्मणः कालादिः क्वचिदन्यः पदार्थ एव नास्ति यो ब्रह्म सर्जने संहारे च प्रेरयेदितिभावः ॥ ८ ॥
मूलम् - कुर्याद्यदीदं जगतां हि सर्जनं, तदेशं केने करोति विष्टपम् । जन्मात्ययव्याधिकषायकैतव कन्दर्पदौर्गत्यभियाभिराकुलम् परस्परद्रोहि विपक्षलक्षितं दुःश्वापदव्यालसरीसृपॉलिकम् । साखेटि कैमैनिकसौनिकैश्चितं दुश्वोरजारादिविकारपीडितम् कस्तूरिकाचामरदन्त चर्मणे, सारङ्गधेनुद्विपचित्रकान्तकम् । दुर्मारिदुर्भिक्षकविज्वरादिकं, दुर्जातिदुर्योनिकुकीटपूरितम्
अमेध्यदौर्गन्ध्यकलेवराङ्कितं, दुष्कर्मनिर्मापणमैथुनाश्चितम् ।
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
१. यदीदमपि ब्रह्म नि क्रियनिरञ्जनाद्युक्तानेक विशेषणविशिष्टं सृष्टिं कुर्यादिति भवतां विधिरस्ति तर्हि भवतां ब्रह्म स्वस्वरूपाद्विप
रीतां सृष्टिं कथं करोतीत्युदाहरति सप्तवृत्तैः । २० कारणेन । ३. व्याघ्र । ४. दुष्टगज । ५. वींछी । ६. नाशकम् ।