________________
युक्तम्, पुनः कथंभूतम् ? 'परमेष्ठि '-परमपदे स्थितम् , पुनः कथंभूतम् ? ' अनन्तकम् '-अन्तरहितम्, पुनः कथंभूतं ? 'निर्मत्सरं '-मात्सर्यदोपरहितम् , पुनः कथंभूतं ? ' रोधविरोधवर्जितम् '-रोधो-अनुरोधो विरोधो-विद्वेषस्ताभ्यां वर्जितम्- || रहितम् रागद्वेषविहीनमितिभावः, पुनः कथंभूतम् ? ' ध्यानप्रभावोत्थितभक्तनिर्वृति --ध्यानस्य प्रभावेन उत्थिता-उत्पन्ना भक्तानां निर्वृतिः सुखं यसात् तत् ध्यानप्रभावेन भक्तसुखोत्पादकमितिभावः, पुनः कथंभूतं ? 'निरंजनानाकृति '-निरंजनम्अनाकारश्चेत्यर्थः, पुनश्च कथंभूतम् ? ' शाश्वतस्थिति'-शाश्वतं निरन्तरं स्थितिर्यस्य तत्तथा ॥ ३-७॥
परब्रह्मणः सृष्टिरचनां तत्रैव प्रलयानुपपत्तिं च त्रिंशच्श्लोकैराहमूलम्-एवंविधं ब्रह्म तदेव तत्कथं, हेतुर्भवेत्सृष्टिकुलोलकर्मणि।।
प्रयोजको ब्रह्मण एव नास्ति य-स्वस्मिन्गतत्वात्सकलस्य वस्तुनः॥८॥ टीका-इदानीं ब्रह्मणः सृष्टिकारणत्वं परिहर्तुमाह-एवंविधमित्यादि 'ब्रह्म' ' एवंविधमेव '-उक्तप्रकारकमेवास्ति, 'तत् '-तस्मात् कारणात् , तद् ब्रह्म'-सृष्टिः, ' कुलालकर्मणि'-सर्जनरूपं यत्कुलालकम कुम्भकारक्रिया, तत्र ' हेतु:कारणं, 'कथं '-केन प्रकारेण, ' भवेत् '-भवितुं शक्नुयात्, उक्तप्रकारकं ब्रह्मसृष्टिरूपकुलालकर्मणि हेतुर्न भवितुं शक्नोतीतिभावः, यदि स्वयं सर्जनं न करोति तर्वन्यप्रेरितं कुर्यादित्याशंकामपि परिहर्तुमाह-प्रयोजक इत्यादि 'ब्रह्मणः 'प्रयोजक
१. सर्जनरूपं यत्कुलालकर्म कुम्भकारक्रिया तत्र । २. ये तु परब्रह्म कर्तृ वदन्ति तेषां मते सर्वाणि कालस्वभावनियत्यादीनि अपि ब्रह्मगतान्येव सन्ति, तस्य ब्रह्मणः कालादिः कश्चिदन्यः पदार्थों नास्ति यो ब्रह्मप्रति सर्जनसंहारे च प्रेरयति ।
ॐॐॐॐॐॐॐ
-
-
-