________________
'सत्केवलज्ञानविशिष्टदृष्टयः'-सत् श्रेष्ठं यत् केवलज्ञानं तेन विशिष्टा युक्ता दृष्टिदर्शनं येषां ते तथा, पुनः 'नीरागिणः'-रागरहिताः, पुनश्च ' अन्योपकृतौ परायणाः'-परोपकारे तत्पराः सन्ति, उक्तगुणविशिष्टा ये सर्वज्ञाः सन्तीतिभावः, ते तु 'ईदृशं वक्ष्यमाणस्वरूपम् , ब्रह्म परं ' न्यवेदयन् '-कथितवन्तः, किं स्वरूपमित्याह-निर्विक्रियमित्यादि ' निर्विक्रियं'विकाररहितम् , पुनः कथंभूतं ? ' निष्क्रिय '-क्रियारहितम् , पुनः कथंभूतम् ? ' अप्रतिक्रियम्'-प्रतीकाररहितम्, दुःखाद्यभिभूतत्वे सति यदर्थं प्रतीकारस्यावश्यकता न भवतीत्यर्थः, पुनः कथंभूतं ? 'ज्योतिर्मयं-प्रकाशखरूपम् , पुनः कथंभूतं ? 'चिन्मयं '-ज्ञानस्वरूपम्, पुनः कथंभूतम् ? 'ईश्वराभिधम् '-ईश्वरनामकम् , पुनः कथंभूतम् ? 'आनंदसांद्रम् - आनन्दः सान्द्रो निरन्तरं यस्य तत् आनंदविशिष्टमितिभावः, पुनः कथंभूतं? 'जगता निषेवितम् '-जगद्वर्तिप्राणिभिः सेवितम् , पुनः कथंभूतं ? ' निर्मायनिर्मोहम्'-मायया रहितं, मोहेन च रहितम्, पुनः कथंभूतं ? ' अहंकृतिच्युतम् '-अहंकृत्या अहंकाराच्युतं पृथग्भूतम् अहंकाररहितमितिभावा, पुनः कथंभूतं ? 'सम्यग्रनिराशंसम् '-अतिशयेन निःस्पृहम्, पुनः कथंभूतम् ? ' अनीहितार्चनम् '-अनीहितमनभिलषितमर्चनं-पूजनं येन तत् तथा पूजामिलापरहितमितिभावः, पुनः कथंभूतं ? ' महोदयं'-महानुदयो यस्य तत्तथा, पुनः कथंभूतं ? ' निर्गुणम् '-गुणैः रहितम् , सत्त्वादिगुणत्रयविरहितमितिभावः, पुनः कथंभूतम् ? ' अप्रमेयकम् '-प्रमातुमयोग्यम् अज्ञेयमित्यर्थः, पुनः कथंभूतं ? 'पुनर्भवप्रोज्झितम् - पुनर्भवेन-पुनर्जन्मना प्रोज्झितं-रहितम् , पुनर्भवप्रोज्झितत्वे हेतुमाह-यतोऽक्षरमिति ' यतः'-कारणात् , ' अक्षरम् '-अविनाशि वर्तते, अतः पुनर्मवप्रोज्झितमस्तीतिभावः, पुनः कथंभूतं ? ' विभु'-व्यापकम् , पुनः कथंभूतं ? ' प्रभावत् '-कान्ति