________________
निर्माय निर्मोहमहंकृतिच्युतं सम्यग्निराशंसमनी हितार्चनम् । महोदयं निर्गुर्णमप्रमेयकं, पुनर्भवप्रोज्झितमक्षरं यतः विभु प्रभावत्परमेष्ठ्यनन्तकं, निर्मत्सरं रोधविरोधवर्जितम् । ध्यानप्रभावोत्थित भक्तनिर्वृति, निरञ्जनानाकृति शाश्वतस्थिति
॥ ६ ॥
11 9 11
टीका — उक्त विषयस्य काठिन्यं दर्शयितुमाह-ये योगिन इत्यादि ' ये योगिनः ' - योगाभ्यासकर्तारः सन्ति, कथंभूता योगिनः १' निर्मलदिव्यदृष्टयः - निर्मला - मलरहिता दिव्या श्रेष्ठा दृष्टिर्येषां ते तथा, यद्वा मलस्याभावो निर्मलं तेन दिव्या दृष्टिर्येषां ते तथेति बोध्यम्, पुनः कथंभूताः १ ' चराचराचारविवेकचिन्तकाः ' - चराचरस्य - स्थावरजंगमस्य य आचारो व्यवहारस्तस्य विवेको - विचारो भेदो वा तस्य चिन्तकाः विचारकर्त्तारः स्थावरजंगमरूपसंसारव्यवहार भेदचिन्तका इतिभावः, पुनश्च कथंभूताः ? ' लब्धाष्टसिद्धिप्रथनाः ' - लब्धाः प्राप्ता या अष्टसिद्धयोऽणिमादयस्ताभिः प्रथनं - प्रख्यातिर्येषां तथा प्राप्ताभिरष्टभिः सिद्धिभिर्विख्याता इत्यर्थः, 'ही' ति निश्चये, 'ते' - योगिनोsपि, 'अहो' - इति विस्मये, 'एतस्य' - ब्रह्मणः स्वरूपम्, 'विचारयन्तः ' - चिन्तयंतः यद्यपि 'हि' शब्दचरण पूर्त्ती, 'पारम् ' - अन्तं, 'न इथति' - न गच्छन्ति, ' तथाऽपीति' - उक्तविधयोगिनां परब्रह्मस्वरूपांत गमनेऽपीत्यर्थः, 'ये लोकविलोकनक्षमाः' - चतुर्दशरज्यात्मक लोकदर्शनसमर्थाः, पुनः 'सर्वार्थयाथार्थ्य - समर्थनार्थना: ' - सर्वे येऽर्था:- पदार्थास्तेषां यद्याथार्थ्य - सत्यता तस्य समर्थनं सम्पादनं तस्यार्थनं - प्रार्थनं येभ्यस्ते तथा, पुनः
१. निःस्पृहं । २. अवाञ्छितपूजनं । ३. सत्त्वादिगुणत्रयरहितं । ४. व्यापकं । ५ अनाकारं ।