________________
माकर्ण्यतामितिभावः, ' स्वरूपम् ' ' निवेदितुं ' - कथयितुं, ' मनीपिणामपि ' - विचारशीलानामेव, 'अपि ' शब्द एवकारार्थः, ' वाचः ' - गिरः, ' स्फुरन्ति ' - स्फुरणं कुर्वन्ति, कथंभूतानां मनीषिणाम् । इत्याह- सिद्धान्तेत्यादि ' सिद्धान्तवेदान्त - विचारवेदिनाम् ' - सिद्धान्तस्य यो वेदो - ज्ञानं तस्यांतः सारस्तस्य यो विचारः - परामर्शस्तद्वेदिनां तद् ज्ञातॄणाम्, सिद्धान्तज्ञानतत्त्वविचारज्ञातॄणामितिभावः, ' इह ' - अस्मिन् विषये, परब्रह्मस्वरूपवर्णन इत्यर्थः, 'चर्मचक्षुषां ' - चर्मदृष्टीनां, न वाचः स्फुरन्ति ॥ २ ॥
मूलम् – ये योगिनो निर्मल दिव्यदृष्टय-वेराचराचारविवेकचिन्तकाः ।
लब्धाष्टसिद्धिप्रथना हि तेऽप्यहो !, विचारयन्तो न हि पारमिश्रति ॥ ३ ॥ तथापि ये लोकविलोकनक्षमाः, सर्वार्थयाथार्थ्य समर्थनार्थनाः । सत्केवलज्ञानविशिष्टदृष्टयो, नीरागिणोऽन्योपकृतौ परायणाः ते त्वीदृशं ब्रह्म परं न्यवेदयन् निर्विक्रियं निष्क्रियमप्रतिक्रियम् । ज्योतिर्मयं चिन्मयमीश्वराभिध-मानंदसान्द्रं जगतां निषेवितम्
11 8 11
॥ ५॥
१. योगाभ्यासकर्त्तारः । २. जङ्गमस्थावर । ३ एतस्य ब्रह्मणः । ४. चतुर्दशरज्वात्मकलोकदर्शन समर्थाः । ५. सर्वे येsर्थाः पदार्था द्रव्याणीति यावत् तेषां यत् याथार्थ्यं सत्यता तस्य समर्थनं सम्पादनं तस्यार्थनं प्रार्थनं येभ्यस्ते ।