________________
-
टीका-दृष्टान्तरमभिधातुकाम आह-अन्योऽपीत्यादि ' इह'-अस्मिन् विपये, 'अन्योऽपि'-द्वितीयोऽपि, ' दृष्टान्तः'निदर्शनं, ' उच्यते '-कथ्यते मया, 'अयम् '-एप दृष्टान्तः, 'विदितप्रमाणैः '-विदितानि-ज्ञातानि प्रमाणानि-सम्यम् || | ज्ञानानि येषां ते तथा तैः प्रमाणज्ञाभिरितिभावः, 'आकर्णनीयः-श्रोतव्यः, दृष्टान्तमेव दर्शयति-यथा हीत्यादिना || * 'हीति निश्चये चरणपूतौ वा, 'यथा'-येन प्रकारेण, 'प्रतिभान्वितः सन् '-अतिशयवत्या धिया युक्तः सन् , 'कश्चित् -
कोऽपि जना, 'आजन्ममृत्यूद्भवं'-जन्मन आरभ्य मरणं यावत् , 'आत्मशक्त्या'-स्वसामर्थेन, हिन्दूकेत्यादि 'हिन्दुकानां'-10 हिन्दूपदवाच्यानां, ' पड्दर्शनानि '-षट्शास्त्राणि-न्यायवैशेषिकसांख्ययोगपूर्वमीमांसोत्तरमीमांसाख्यानि, 'पारशीकानां'-14 यवनानां शास्त्राणि, तथा 'त्रिलोक्याः'-त्रिभुवनस्य, ' सर्वाणि'-निखिलानि शास्त्राणि, 'पठन्'-अधीयानः स्यात् , 'इह'अस्मिन् शास्त्राध्ययने, 'असंख्यम् '-अगणनीयम्, 'आयुः '-जीवनकालं, 'वहन्नपि '-व्यतीतं कुर्वन्नपि स्यात् , तथा || 'अस्य '-शास्त्राध्ययनकर्तुः, 'हृत्'-हृदयं, 'कदाचित् '-कदापि, ' शास्त्राक्षरैः '-शास्त्रवर्णैः, 'पूर्ण'-भृतं, 'न भवेत्'- | न भवति, अप्यथेति एतदनंतरं उक्तदृष्टान्तकथनानंतरमित्यर्थः, दान्तेि ' योजना'-संघटनम् , ' एवं '-वक्ष्यमाणप्रकारेण अस्ति, दार्टान्ते योजनामेवाह-यथैवेत्यादिना 'एव' शब्दोऽवधारणे, 'यथा'-येन प्रकारेण, शास्त्राणि सन्ति तथा'तेनैव प्रकारेण, 'अयं'-प्रस्तूयमाना, ' भवः'-संसारोऽस्ति, 'विमुक्ताः'-सिद्धाः, 'शास्त्राक्षरवत् '-शास्त्राक्षरसमानाः, 'भवन्ति'-विद्यते, 'ही 'ति निश्चये, 'सिद्धिः'-मुक्तिः, 'सुबुद्धिवक्षोवत्'-सुष्ठु बुद्धियुक्तजनस्य हृदयमिव, अस्ति, 'मोक्षमार्गः '-मुक्तेः पंथा:, 'निरन्तरायः '-अंतरायरहिता, निर्विन इतिभावः, 'अश्रान्ततत्पाठवदेव'-निरन्तरतजनपाठसमान