________________
ARRRRRRRRRR
टीका-उक्तविषये कस्य विश्वासः स्यादित्याह-दृष्टान्तेत्यादिना ' दृष्टांतदानॊतिकयोः '-दृष्टान्तदाष्र्टीतसम्बंधि, 'इतीदम् '-इत्येतत्, पूर्वोक्तमित्यर्थः, 'साम्य'-समत्वं, ' समालोचयतां'-विचारयताम् , ' परमार्हतानां'-परमजैनानां, 'नराणां'-मनुष्याणां, 'अर्हद्वचस्येव -सर्वज्ञवचन एव, 'प्रतीतिः'-विश्वासः, भवति, ' अपरत्र'-अपरस्मिन् मिथ्यावाक्यवतीत्यर्थः, ' न च '-नैव प्रतीतिर्भवति ॥ ७॥ मूलम्-अन्योऽपि दृष्टान्त इहोच्यतेऽय-माकर्णनीयो विदितप्रमाणैः।
यथा हि कश्चित्प्रतिभान्वितः स-नाजन्ममृत्यूदुभवमात्मशक्त्या ॥८॥ हिन्दूकषड्दर्शनपारशीक-शास्त्राणि सर्वाणि पठंस्त्रिलोक्याः। असङ्ख्यमायुर्निवहन्नपीह, हृदस्य पूर्ण न भवेत्कदाचित् ॥९॥ शास्त्राक्षरैरप्यथ योजनैवं, यथैव शास्त्राणि भवस्तथाऽयं । भवन्ति शास्त्राक्षरवद्विमुक्ताः, सुबुद्धिवक्षोवदियं हि सिद्धिः ॥१०॥ अश्रान्ततत्पाठवदेव मुक्ति-मार्गों वहन्नस्ति निरन्तरायः ।
शास्त्रेष्वधीतेषु न शास्त्रनाश-स्तथैव सिद्धेधुं भर्वस्य नान्तः ॥११॥ १. अतिशयवती वुद्धिस्तया युक्त । २. जन्मन आरभ्य मरणं यावत् । ३. यावन । ४. संसारः । ५. सिद्धाः। ६. सुबुद्धिपुरुषविधायमान पाठ इव । ७. सर्वभव्यजीवेषु सिद्धिं गतेषु। ८. भवस्यार्थात्संसारस्थभव्यजीवस्य ।